SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ सूत्र-६४४-६५२ ] स्वपोज्ञोणादिगणसूत्र विवरणम् वारिसदेरिणिक् || ६४४ ॥ एभ्यः किद् इणिः प्रत्ययो भवति । वृग्ट् वरणे, ण्यन्तः । वारिणिः पशुः, पशुवृत्तिश्च । सृ गतौ, त्रिणि:- अग्निः, वज्र च । आदिग्रहणादन्येऽपि ॥ ६४४ ॥ [ ४३५ अदेस्त्रीणिः || ६४५ ॥ अदंक् भक्षणे, इत्यस्मात् त्रोणिः प्रत्ययो भवति । अत्रीणिः - कृमिजातिः ।। ६४५ ।। C प्लु-ज्ञा-यजि-षपि पदि - वसि वितसिभ्यस्तिः ।। ६४६ ॥ एभ्यः तिः प्रत्ययो भवति । प्लुङ गतौ, प्लोतिः - चीरम् । ज्ञांश् अवबोधने, त्रैलोक्यस्य त्रातेति ज्ञातिः - इक्ष्वाकुर्वृषभः, स्वजनश्च । यजीं देवपूजादी, यष्टिः- दण्डः, लता च । षप समवाये, सप्ति:- अश्वः । पदिच् गतौ पत्तिः पदातिः । वसं निवासे, वस्ति: -- मूत्राधारः, चर्मपुटः, स्नेहोपकरणं च । तसूच् उपक्षये विपूर्वः, वितस्ति:- अधहस्तः । ६४६ ॥ प्रलुक् च ।। ६४७ ॥ प्रथिषु प्रख्याने, इत्यस्मात् तिः प्रत्ययो भवति, अन्तस्य च लुग् वा भवति । वृक्षं प्रति विद्योतते - प्रतिष्ठितः । पक्षे प्रत्तिः प्रथनं, भागश्च ।। ६४७ ।। कोर्यषादिः ।। ६४८ ॥ कुंक् शब्दे, इत्यस्माद् यषादिः तिः प्रत्ययो भवति । कोयष्टिः पक्षिविशेषः । ६४८ । ग्रो गृण च ।। ६४६ ।। मृत् निगरणे, इत्यस्मात् तिः प्रत्ययो भवत्यस्य च गृष् इत्यादेशो भवति । गृष्टिःसकृत् प्रसूता गौः ।। ६४६ ॥ सोरस्तेः शित् ॥ ६५० ॥ सुपूर्वात् अस भुवि इत्यस्मात्, शित् तिः प्रत्ययो भवति । स्वस्ति-कल्याणम् । शित्त्वाद् भूभावाल्लुगभावः ।। ६५० ।। - मुषि - कृषि - रिषि - विषि-शो- शुच्यसि - पूयीण-प्रभृतिभ्यः कित् ।। ६५१ ॥ एभ्यः कित् तिः प्रत्ययो भवति । दृङत् आदरे, हतिः छागादित्वङ मयो जलाधारः । मुषश् स्तेये, मुष्टि:1 ट: - अङ गुलिसंनिवेशविशेषः । कृषींत् विलेखने, कृष्टिः पण्डितः । रिष् हिंसायाम्, रिष्टिः- प्रहरणम् । विष्लृ की व्याप्तो विष्टि:- अवेतनकर्मकरः । शोंच् तक्षणे, शितिः - कृष्णः, कृशश्च । शुच् शोके, शुक्तिः - मुक्तादिः । अशौटि व्याप्ती, अष्टिःछन्दोविशेषः । पूयैङ, दुर्गन्ध:- विशरणयो:, पूतिः - दुर्गन्ध, दुष्टम्, तृणजातिश्च । इंण्क् गतौ, इति वा । टुडु पोषणे च प्रपूर्वः प्रभृतिः - आदिः ।। ६५१ ।। कु - च्योर्नोऽन्तश्च ।। ६५२ ।।
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy