________________
सूत्र ५६४-६०२ ]
स्वोपज्ञोणादिगणसूत्र विवरणम्
[ ४२७
निपूर्वात् इंणक् गती, इत्यस्मात् शिद् ऊहः प्रत्ययो भवति । निर्यूहः- सौधादिकाष्ठनिर्गमः ।। ५९३ ।।
दस्त्यूहः || ५६४ ॥
ददातेः त्यूहः प्रत्ययो भवति । दात्यूहः-पक्षिविशेषः ।। ५९४ ।।
अनेरोकहः || ५६५ |
अनक् प्राणने, इत्यस्मादोकहः प्रत्ययो भवति । अनोकहा- वृक्षः ।। ५६५ ।।
वलेरक्षः ।। ५६६ ।
बलि संवरणे, इत्यस्माद् अक्षः प्रत्ययो भवति । वलक्ष: शुक्लः ।। ५६६ ।। लाक्षा-द्राचा मिक्षादयः ॥ ५६७ ॥
लाक्षादयः शब्दा अक्षप्रत्ययान्ता निपात्यन्ते । लसेरा च, लाक्षा जतु । रसेद्र च द्राक्षा- मृद्वीका । आङपूर्वान्मृदेरन्त्यस्वरादेर्लुक् प्रत्ययादेरित्वं च । आमिक्षा हविर्विशेषः । आदिग्रहणात् चुप मन्दायां गतौ इत्यस्य चोक्षः- ग्रामरागः, शुद्धं च । एवं पीयूक्षादयोऽपि भवन्ति ।। ५९७ ॥
समिण निकषिभ्यामाः ॥ ५६८ ॥
पूर्वादिगतो. इत्यस्माद् निपूर्वात् कष हिंसायाम्, इत्यस्माच्च आः प्रत्ययो भवति । समया पर्वतम्, निकषा पर्वतम् । समीप असूयावाचिनावेतौ ।। ५९८ ।। दिवि - पुरि-वृषि- मृषिभ्यः कित् ॥ ५६६ ॥
एम्य: किद् आः प्रत्ययो भवति । दिवच् क्रीडा - जयेच्छा - पणि द्युति स्तुति-गतिषु, दिवा - अहः । पुरत् अग्रगमने, पुरा भूतकालवाची । वृषू सेचने, वृषा - प्रबलमित्यर्थः । मृषीच् तितिक्षायाम्, मृषा - अभूतमित्यर्थः ।। ५९९ ।।
वेः साहाभ्याम् || ६०० ॥
विपूर्वाभ्यां षच् अन्तकर्मणि, ओहांक त्यागे, इत्येताभ्याम् आः प्रत्ययो भवति । विसा:- चन्द्रमाः, बुद्धिश्च । तालव्यान्तोऽयमित्येके विहाः - विहगः, स्वर्गश्च ।। ६०० ।। वृ- मिथि- दिशिभ्यस्थ-य-य्याश्वान्ताः ।। ६०१ ॥
एभ्यः किद् आः प्रत्ययो भवति । यथासंख्यं थकार यकार ट्यकाराश्चान्ता भवन्ति । वृग्ट् वरणे, वृथा - अनर्थकम् | मिथुग् मेघा - हिंसयोः, मिथ्या - मृषा, निष्फलं च । दिशत् अतिसर्जनेः दिष्ट्या - प्रीतिवचनम् ।। ६०१ ।।
मुचि-स्त्रदेर्ध च ॥ ६०२ ॥
आभ्यां किद् आः प्रत्ययो भवति, घंकारश्चान्तस्य भवति। मुच्लू ती मोक्षणे, मुघाअनिमित्तम् । ष्वदि आस्वादने, स्वधा - पितृबलिः ॥ ६०२ ॥