SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ४२६ ] स्वोपज्ञोणादिगणसूत्र विवरणम् कलि- कुलिभ्यां मास ॥ ५८४ ॥ आभ्यां किद् मासः प्रत्ययो भवति । कलि शब्दसंख्यानयो:, कल्मासं - शबलम् । कुल बन्धु- संस्त्यानयो:, कुल्मासः - अर्धस्विन्नं माषादि ।। ५८४ ।। अलेरम्बुसः ।। ५८५ ।। अली भूषणादी, इत्यस्माद् अम्बुसः प्रत्ययो भवति । अलम्बुस :- यातुधानः, अलम्बुसा नाम औषधिः ।। ५८५ ।। लूगो हः || ५८६ ॥ नातेः प्रत्ययो भवति । लोहं सुवर्णादि ।। ५८६ ॥ [ सूत्र- ५८४-५९३ कितो गे च ॥ ५८७ ॥ कितु निवासे, इत्यस्मात् हः प्रत्ययो भवत्यस्य च गे इत्यादेशो भवति । गेहूंगृहम् ।। ५८७ । हिंसेः सिम् च ॥ ५८८ ॥ हिसु हिंसायाम्, इत्यस्माद् हः प्रत्ययो भवत्यस्य च सिमित्यादेशो भवति । सिंहः - मृगराजः ।। ५८८ ॥ 1 कु-पु-कटि-पटिम टि-लटि-ललि-पलि- कल्यनि-रगि-लगेरहः || ५८६ ॥ एभ्यः अहः प्रत्ययो भवति । कृत् विक्षेपे, करहः- धान्यावपनम् । पृश् पालनपूरणयो:, परहः - शंकरः । कटे वर्षावरणयोः, कटहः - पर्जन्यः, कर्णवच्च कालायसभाजनम् । पट गती, पटहः- वाद्यविशेषः । मट सादे सौत्रः, मटह: - ह्रस्वः । लट बाल्ये, लटति - विलसति, लटहः-विलासवान् । ललिण् ईप्सायाम्, ललह: - लीलावान् । पल गती, पलहःआवापः । कलि शब्दसंख्यानयोः, कलहः - युद्धम् । अनक् प्राणने, अनहः - नीरोगः । रगे शङ्कायाम्, रगहः-नटः । लगे सङगे, लगह :- मन्दः ।। ५८९ ।। पुलेः कित् ॥ ५६० ॥ पुल महत्त्वे, इत्यस्मात् किद् अहः प्रत्ययो भवति । पुलहः प्रजापतिः ।। ५६० ॥ वृ- कटि- शमिभ्य आहः ॥ ५६१ ॥ एम् आहः प्रत्ययो भवति । वृग्ट् वरणे, वराहः - सूकरः । कटे वर्षावरणयोः, कटाह: - कर्णवत् कालायसभाजनम् । समूच् उपशमे, शमाहः - आश्रमः ।। ५९१ ।। विलेः कित् ॥ ५६२ ॥ विलत्वरणे, इत्यस्मात् किद आहः प्रत्ययो भवति । विलाहः - रहः ।। ५६२ ।। निर इण ऊहश् ।। ५६३ ॥
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy