SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ - ४१४ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [ सूत्र-४९०-४९६ तमूच काङ्क्षायाम् , इत्यस्माद् ऊल: प्रत्ययो भवति, वोऽन्तश्च भवति, दीर्घस्तु वा । ताम्बूलं, तम्बूलम्-उभयं पूगपत्रचूर्णसंयोगः ।। ४८९ ।। कुल-पुल-कुसिभ्यः कित् ।। ४६० ॥ एभ्य ऊलः प्रत्ययो भवति, स च किद् भवति । कुल बन्धु-संस्त्यानयोः, कुलूलः कृमिजातिः । पुल महत्त्वे, पुलूल:-वृक्षविशेषः । कुशच् श्लेषे, कुशूल:-कोष्ठः ।। ४९० ॥ दुकूल-कुकूल-बब्बूल-लागृल-शाद लादयः ॥ ४६१ ॥ दुकूलादयः शब्दा ऊलप्रत्यान्ता निपात्यन्ते । दुक्वोः कोऽन्तश्च, दुकूलं-क्षौमं वासः । कुकूलं कारीषोऽग्निः । बर्बोऽन्तो बश्च । बब्बूल:-वृक्षविशेषः । लङ गेर्दीर्घश्च लाङ गूलं वालधिः । शृणातेर्दोऽन्तो वृद्धिश्च, शार्दूल: व्याघ्रः । आदिग्रहणाद् माजूल: कञ्चूलादयो भवन्ति ।। ४९१ ॥ महेरेलः ॥ ४६२॥ मह पूजायाम् , इत्यस्मादेलः प्रत्ययो भवति । महेला स्त्री । ४६२ ॥ कटि-पटि-कण्डि-गण्डि-शकि-कपि-चहिम्य ओलः ॥ ४६३ ॥ एभ्य ओल: प्रत्ययो भवति । कटे वर्षावरणयोः, कटोल:-कटविशेषः, वादित्रविशेषश्च । कटोला औषधिः । पट गतौ, पटोला वल्लीविशेषः । कडु मदे, कण्डोलःविदलभाजनविशेषः । गडु वदनैकदेशे, गण्डोलः कृमि विशेष: । शक्लृट् शक्ती, शकोल:शक्तः, कपिः सौत्रः, कपोल: गण्डः । चह कल्कने, चहोल:-उपद्रवः ।। ४६३ ।। ग्रह्याद्या कित् ॥ ४६४ ॥ ग्रहेराकारान्तेभ्यश्च धातुभ्यः किदोलः प्रत्ययो भवति । ग्रहीश् उपादाने, गृहोल:बालिशः । कायतेः कोलः-बदरी, वराहश्च । गायतेः गोल:-वृत्ताकृतिः, गोला-गोदावरी, बालरमणकाष्ठं च । पाते: पोला: तालाख्यं कपाटबन्धनं,परिखा च । लातेः लोल:-चपलः । ददातेर्दयतेद्यतेर्वा दोला-प्रेङ्खणम् ॥ ४६४ ॥ पिञ्छोल-कल्लोल-कक्कोल-मकोलादयः ॥ ४६५ ॥ पिञ्छोलादयः शब्दा ओलप्रत्ययान्ता निपात्यन्ते । पीडै: पिञ्छच पिञ्छोल:वादित्रविशेषः । कलेर्लोऽन्तश्च, कल्लोल:-मिः । कचि मच्योः कादिः, कक्कोली लता. विशेषः । मक्कोलः-सुधाविशेषः । आदिग्रहणादन्येऽपि ।। ४९५ ।। वलि-पुषेः कलक् ।। ४६६ ॥ आभ्यां कित् कलः प्रत्ययो भवति । वलि संवरणे, वल्कलं तरुत्वक । पुष पुष्टा, पुष्कलं, समग्रं युद्धं, शोभनं, हिरण्यं, धान्यं च ।। ४६६ ।।
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy