________________
सूत्र.-४८४-४८६ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[४१३
स्थण्डिल-कपिल-विचकिलादयः ॥ ४८४॥
स्थण्डिलादयः शब्दा इलत्ययान्ता निपात्यन्ते । स्थलेः स्थण्ड् च, रथण्डिलं- व्रतिशयनवेदिका । कबेः प च, कपिल:- वर्णः, ऋषिश्च । विचेरकोऽन्तश्च, विचकिलः-मल्लिकाविशेषः । आदिग्रहणाद् गोभिलनिकुम्भिलादयोऽपि भवन्ति ।। ४८४ ।।
हृषि-वृति-चटि-पटि-शकि-शङ्कि-तण्डि-मङ्-ग्युत्कण्ठिभ्य उलः ॥ ४८५ ॥
एभ्य उल: प्रत्ययो भवति । हृषच तुष्टी, हृष्ट अलीके वा, हर्षु ल:-हर्षवान् , कामी, मृगश्च । वृतूङ वर्तने, वर्तुल:-वृत्तः । चटण भेदे, चटुलः चञ्चलः । पट गतौ, पटुल:-वाग्मी । शक्लट शक्ती, शकुल:-मत्स्यः । शङ कू शङ्कायाम् , शङकूला-क्रीडनशङ कु, बन्धनभाण्डम् , आयुधं च । तडुङ ताडने, तण्डुलो निस्तुषो व्रीह्यादिः । मगु गतो, मङ गुलं-न्यायापेतम् कठुङ शोके, उत्पूर्वः उत्कण्टुल:-उत्कण्ठावान् ।। ४८५ ॥
स्था-वङ्कि-बहि-बिन्दिभ्यः किन्नलुक् च ॥ ४८६ ॥
एभ्यः किद् उल: प्रत्ययो नकारस्य च लुग भवति । ष्टां गतिनिवृत्ती, स्थुलंपटकुटीविशेषः । वकुङ कौटिल्ये, वकुल:-केसरः, ऋषिश्च । बहुङ वृद्धौ, बहुलं-प्रचुरम्बहुल:-प्रासकः, कृष्णपक्षश्च । बहुला:-कृत्तिकाः, बहुला-गौः। विदु अवयवे, विदुलःवेतसः ।। ४८६ ।। कुमुल-तुमुल-निचुल-वजुल-मञ्जुल-पृथुल-विशंस्थु-लाड्गुल-मुकुल-शकुलादयः
॥ ४८७॥ एते उलप्रत्ययान्ता निपात्यन्ते । कमितम्योरत उच्च, कुमुलं-कुसुमम् , हिरण्यं च, कुमुल:-शिशुः, कान्तश्च । तुमुलं-व्यामिश्रयुद्धम् , सकुलं च । निजेः किच्चश्च । निचुल:वजुल: । वजे: स्वरान्नोऽन्तश्च, वजुल:-निचुलः । मञ्जिः सौत्रः, मञ्जुलं मनोज्ञम् । प्रथेः पृथ् च, पृथुल:-विस्तीर्णः । विपूर्वात् शसेस्थोन्तश्च, विशंस्थुल:-व्यग्रः । अजेर्गश्च अङ गुलम् अष्टयवप्रमाणम् । मुचेः कित् कश्च, मुकुल:-अविकसितपुष्पम् । शकेः स्वरात् षोऽन्तश्च, शएकुली-भक्ष्यविशेष:, कर्णावयवश्च । आदिग्रहणाल्लकुल-वल्गुलादयो भवन्ति ॥४८७॥ ___ पिञ्जि-मञ्जि-कण्डि-गण्डि-बलि-वधि-वश्चिभ्य ऊलः ॥ ४८८ ॥
एभ्यः ऊलः प्रत्ययो भवति । पिजुण हिंसाबल-दान-निकेतनेषु, पिजूलः हस्तिबन्धनपाशः, राशिः, कुलपतिश्च । मञ्जिः सौत्रः, मजूला-मृदुभाषिणी । कडुङ. मदे, कण्डूल:-अशिष्टो जनः । गडु वदनैकदेशे, गण्डूल:-कृमिजातिः । बल प्राणन-धान्यावरोघयोः, बलूल:-ऋषिः, मेघः, मासश्च । बधि बन्धने, बधूलः हस्ती, घातकः रसायनं, तन्त्रकारश्च । वञ्चिण् प्रलम्भने, वञ्चूलः हस्ती, मत्स्यमारपक्षी च । ४८८ ॥
तमेर्वोऽन्तो दीर्घस्तु वा ॥ ४८६ ।।