SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ३८४ ] स्वोपज्ञोणादिगणसूत्र विवरणम् [ सूत्र - ३०४-३११ आभ्यां कित्पः प्रत्ययो भवति, लुक् चान्तस्य भवति । उभत् पूरणे । अव रक्षनादौ । उप, अप च अव्यये ।। ३०३ ।। दलि-लि-तलि खजि ध्वजि - कचिभ्योऽपः || ३०४ ॥ एभ्यः अपः प्रत्ययो भवति । दल विशरणे, दलपः - प्रहरणम्, रणमुखम्, त्रिदलं, दलविशेषश्च, दलपं व्रणमुखत्राणम् । वलि संवरणे, वलपः- कणिका । तलण् प्रतिष्ठायाम्, तलप:- हस्तप्रहारः । खज मन्थे, खजपः - मन्थः, खजपं दधि, घृतम् उदकं च । ध्वज गतौ, ध्वजप :- ध्वजः । कचि बन्धने, कचपः - शाकपणः, बन्धश्च ।। ३०४ ।। भुजि-कुति - कृटि - विटि कुणि-कुष्युषिभ्यः कित् ॥ ३०५ ॥ एभ्यः किदपः प्रत्ययो भवति । भुजंप् पालनाभ्यवहारयोः, भुजपः - राजा, यजमानपालनादग्निश्च । कुतिः सौत्रः, कुतपः - छागलोम्नां कम्बलः आस्तरणं, श्राद्धकालश्च । कुटस् कौटिल्ये, कुटप :- प्रस्थचतुर्भाग: नीडं च शकुनीनाम् । विट् शब्दे, बिटप:- शाखा । कुणत् शब्दोपकरणयोः । कुणपः- मृतकं कुषितं, शब्दार्थसारूप्यं च । कुषश् निष्कर्षे, कुषप:विन्ध्यः, संदंशश्च । उषू दाहे, उषपः - दाहः, सूर्यः, वह्निश्च ।। ३०५ । शंसेः श इच्चातः ॥ ३०६ ॥ शंसू स्तुतौ च इत्यस्मादपः प्रत्ययो भवति तालव्यः शकारोऽन्तादेशोऽकारस्य च इकारो भवति । शिशपाः - वृक्षविशेषः ।। ३०६ ॥ T विष्टपोलप - वातपादयः ॥ ३०७ ॥ विष्टपादयः शब्दाः किद् अपप्रत्ययान्ता निपात्यन्ते । विषेस्तोऽन्तश्च । विष्टपंजगत् सुकृतिनां स्थानं च । वलेरुल् च । उलप - पर्वततृणम्, पङ्कजं जलं च । उलपः ऋषिः । वातेस्तोऽन्तश्च । वातपः ऋषिः । आदिग्रहणात् खरपादयोऽपि भवन्ति ।। ३०७ ॥ कलेरापः ॥ ३०८ ॥ कलि शब्दसंख्यानयो:, इत्यस्मादापः प्रत्ययो भवति । कलापः काञ्चीसमूहः, शिखण्डश्च ।। ३०८ ॥ विशेरिपक् ।। ३०६ || विशंत् प्रवेशने, इत्यस्मादिपक् प्रत्ययो भवति । विशिपः- राशिः । विशिपं-तृणं, वेश्म, आसनं, पद्म च ।। ३०६ ।। दलेरीपो दिल् च ॥ ३१० ॥ दल विशरणे, इत्यस्मादीपः प्रत्ययो भवति । दिल् च स्यादेशो भवति । दिलीप:राजा ।। ३१० । उडेरुपक् ।। ३११ ॥
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy