SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ३८२ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [सूत्र-२९०-२६६ लषी कान्तौ इत्यस्माद् उनः प्रत्ययो भवति । तालव्यः शकारश्चान्तादेशो भवति । लशुनं-कन्दजातिः।। २८६ ।। पिशि-मिथि-क्षुधिभ्यः कित् ॥ २६० ॥ - एभ्यः किद् उनः प्रत्ययो भवति । पिशत् अवयवे, पिशुनः खलः, पिशुनं-मैत्रीभेदकं वचनम् । मिथङ मेघाहिंसयोः, मिथुनं-स्त्रीपुसद्वन्द्वम् , राशिश्च । क्षुधंच बुभुक्षा. याम् , क्षुधनः-कीटकः ।। २९० ॥ फलेगोऽन्तश्च ॥ २६१॥ फल निष्पत्ती, इत्यस्माद् उनः प्रत्ययो भवति, गश्चान्तो भवति । फल्गुन:अर्जुनः । फल्गुनीनक्षत्रम् ।। २९१ ॥ वी-पति-पटिभ्यस्तनः ॥ २६२॥ एभ्यस्तनः प्रत्ययो भवति । वीक प्रजननादौ, वेतनं भृतिः । पत्लु गतौ, पत्तनम् । पट गतौ, पट्टनम् । द्वावपि नगरविशेषौ । पट्टनं शकटैगम्यं, घोटकैनौंभिरेव च । नौभिरेव तु यद् गम्यं, पत्तनं तत् प्रचक्षते ॥ २९२॥ पृ-पूभ्यां कित् ॥ २६३ ॥ आभ्यां कित् तनः प्रत्ययो भवति । पृङत् व्यायामे, पृतना सेना । पूग्श् पवने, पूतनाराक्षसी।। २६३ ।। कृत्यशौभ्यां स्नक् ॥ २६४ ॥ आभ्यां स्नक्प्रत्ययो भवति । कृतैत् छेदने, कृत्स्नं-सर्वम् । अशौटि व्याप्तौ। अक्ष्णं-नयनं, व्याधिः, रज्जुः, तेजनम् , अखण्डं च ।। २९४ ॥ अतः शसानः ॥ २६५ ॥ ऋक् गतो, इत्यस्मात्तालव्यादिः शसानः प्रत्ययो भवति । अर्शसान.-पन्थाः, इषुः, अग्निश्च ॥२९५ ।। भा-पा-चणि-चमि-विषि-सू-पृ-त-शी-तल्यलिशमि-रमि-वपिभ्यः पः ।। २६६ ॥ एम्य पः प्रत्ययो भवति । भांक दीप्ती, भापःआदित्यः, ज्येष्ठश्च भ्राता । पांकरक्षणे पापं-कल्मषम् , पापः-धोरः । चण हिंसादानयोश्च, चण्पानगरी, चण्पः-वृक्षः । चमू अदने, चम्पा नगरी । विष्ल की व्याप्ती, वेष्पः-परमात्मा, स्वर्गः, आकाशश्च । निपूत् ि, निवेष्पः-अपां गर्भः, कूपः, वृक्षजातिः, अन्तरीक्षं च । सृ गतौ, सर्पः-अहिः । पृश् पालनपूरणयोः, पर्पः-प्लवः, शङ्ख समुद्रः, शस्त्रं च । तृ प्लनवतरणयोः, तर्पः-उडुपः
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy