SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ सूत्र - २५४ - २६१ ] स्वपज्ञोणादिगणसूत्र विवरणम् [ ३७७ आरगेर्वधः ॥ २५४ ॥ आङ पूर्वात् रगे शङ्कायाम्, इत्यस्माद् वधः प्रत्ययो भवति । आरग्वधःवृक्षजातिः ।। २५४ ॥ परात् श्रो- डित् ॥ २५५ ॥ परपूर्वात् शृश् हिंसायाम्, इत्यस्मात्, डित् वधः प्रत्ययो भवति । परश्वध:आयुधजातिः ।। २५५ ॥ इषेरुधक् ।। २५६ ।। इषत् इच्छायाम् इत्यस्माद् उधक् प्रत्ययो भवति । इषुध: - याञ्चा ।। २५६ ।। कोरन्धः ॥ २५७ ॥ कुङ शब्दे, इत्यस्माद् अन्धः प्रत्ययो भवति । कवन्धः - छिन्नमूर्धा देहः ।। २५७ ।। धान्यनि- स्वदिस्वपि वस्यज्यति- सिविभ्यो नः ॥ २५८ ॥ एभ्यो नः प्रत्ययो भवति । प्येक वृद्धी, प्यानः समुद्रः चन्द्रश्च । डुघांग्क् धारणेच, धाना-भृष्टः यव:, अङ्कुरश्च । पनि स्तुतौ, पन्नं- नीचैः करणम्, सृन्नं, जिह्वा च । अनक् प्राणने, अन्नं भक्तम्, आचारश्च । ष्वदि आस्वादने, स्वन्नं रुचितम् । त्रिष्वपंक् शये, स्वप्नः मनोविकारः, निद्रा च । वसं निवासे, वस्नं- वास:, मूल्यम् मेढ्रम्, आगमश्च । अज क्षेपणे च, वेनः प्रजापतिः, ध्यानी, राजा, वायुः यज्ञः, प्राज्ञः, मूर्खश्च । अत सातत्यगमने, अत्नः - आत्मा, वायुः, मेघः प्रजापतिश्च । षिवृच् उतौ, स्योनं सुखम्, तन्तुवायसूत्रसंतान:, समुद्रः, सूर्यः, रश्मिः, आस्तरण च ।। २५८ ।। " सेर्णित् ।। २५६ ।। सक् स्वप्ने इत्यस्मात् णिद् नः प्रत्ययो भवति । सास्ना- गोकण्ठावलम्बि चर्म, निद्रा च ।। २५६ ॥ रसेर्वा ।। २६० ।। रसशब्दे इत्यस्माद् न प्रत्ययो भवति, स च णिद् वा भवति । रास्ना धेनुः औषविजातिश्च । रस्नं - द्रव्यजातिः, रस्ना-जिह्वा, रस्नः - तुरङ्ग, दण्डश्च ।। २६० ।। जीण-शी- दी. बुध्यवि-मीभ्यः कित् ॥ २६१ ॥ एभ्यः किद् नः प्रत्ययो भवति । जि अभिभवे, जिन:- अर्हन्, बुद्धश्च । इंक गतौ, इन:- स्वामी, संनिपातः, ईश्वरः, राजा, सूर्यश्च । शीङक् स्वप्ने, शीनः पीलुः । दीङ् च् क्षये । दीनः, कृपणः, खिन्नश्च । बुधिच् ज्ञाने बुध्नः - मूलं, पृष्ठान्तः, रुद्रश्च । अव रक्षणाद, ऊनम् - अपरिपूर्णम् । मीङ च् हिंसायाम्, मीन :- मत्स्यः, राशिश्च ।। २६१ ।।
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy