SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ३७६ ] स्वोपज्ञोणादिगण सूत्र विवरणम् [ सूत्र - २४५ - २५३ ककि-मकिभ्यामन्दः || २४५ ॥ आभ्यामन्दः प्रत्ययो भवति । ककि लौल्ये । मकिः सौत्रः । ककन्दः मकन्दश्च राजानी, यकाभ्यां निर्वृत्ता काकन्दी, माकन्दी च नगरी ।। २४५ ।। कल्य लि-पुलि-कुरि-कुणि मणिभ्य इन्दक् ॥ २४६ ॥ एभ्य इन्दक् प्रत्ययो भवति । कलि शब्दसंख्यानयो:, कलिन्दः पर्वतः यतो यमुना प्रभवति । अली भूषणादौ, अलिन्दः प्रघाणः, भाजनस्थानं च । पुल महत्त्वे, पुलिन्द:शबरः । कुरत् शब्दे, कुरिन्दः - धान्य मलहरणोपकरणम्, तेजनोपकरणं च । कुणत् शब्दोपकरणयो:, कुणिन्द:- म्लेच्छः, शब्द उपकरणं च । मण शब्दे, मणिन्दः - अश्वबल्लवः । २४६॥ कुपेर्व च त्रा || २४७ ॥ कुपच् क्रोधे, इत्यस्माद् इन्दक् प्रत्ययो भवति । वश्चान्तादेशो वा भवति । कुपिन्दः, कुविन्दः - तन्तुवायः ।। २४७ ।। पुलिभ्यां णित् ॥ २४८ ॥ आभ्यां द् िइन्दक् प्रत्ययो भवति । पृश् पालनपूरणयो:, पल गतौ, पारिन्दः, पलिन्दः, द्वावपि वृक्षगाथको, पारिन्दः - मुख्यः, पूज्यश्च । पालिन्दो - नृपतिः, रक्षकइचेत्येके ।। २४८ ॥ यमेरुन्दः ।। २४६ ॥ यमूं उपरमे, इत्यस्माद् उन्दः प्रत्ययो भवति । यमुन्दः - क्षत्रियविशेषः ।। २४९ ॥ मुडु कुन्द- कुकुन्दौ || २५० ।। मुच्लू ती मोक्षणे, इत्यस्मात् डित् उकुन्दः किदुकुन्दश्च प्रत्ययो भवतः । मुकुन्दः विष्णुः, मुचुकुन्द:- राजा, वृक्षविशेषश्च ।। २५० ।। स्कन्द्यमिभ्यां धः ।। २५१ ।। आभ्यां घः प्रत्ययो भवति । स्कन्दु गतिशोषणयोः, स्कन्धः - बाहुमूर्धा, ककुन्दंविभागश्च । बाहुलकाद् दस्य लुक् । अम गतौ, अन्ध: - चक्षुर्विकलः ।। २५१ ।। नेः स्यतेरधक् || २५२ ।। निपूर्वात् षोच् अन्तकर्मणि, इत्यस्माद् अधक् प्रत्ययो भवति । निषधः पर्वतः, निषधाः जनपदः ।। २५२ ।। मङ्गेर्नलुक् च ॥ २५३ ॥ म गती, इत्यस्माद् अधक् प्रत्ययो भवति, नकारस्य च लुग् भवति । मगधाः जनपदः ।। २५३ ॥
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy