SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ सूत्र-७३-८१ ] स्वोपज्ञोणादिगणसूत्रविवरणम् . [ ३५३. कनेरीनकः॥ ७३ ॥ कनै दीप्तिकान्तिगतिषु, इत्यस्मादीनकः प्रत्ययो भवति । कनीनकः-कनीनिका वाऽक्षितारका ।। ७३॥ गुङ् ईधुकधुकौ । ७४॥ गुङ शब्दे. इत्यस्मादीधुक एधुक-इत्येतो प्रत्ययौ भवतः । गवोधुकं-नरम् , धान्यजातिश्च । गवेधुकातृणजातिः ।। ७४ ।। वृतेस्तिकः॥ ७५॥ वृतूङ वर्तने, इत्यस्मात्तिक: प्रत्ययो भवति । वत्तिका-चित्रकरोपकरणम् , शकुनिः, द्रव्यगुटिका च ।। ७५ ॥ कृति-पुति-लति-भिदिभ्यः कित ।। ७६ ॥ एभ्यः कित्तिक: प्रत्ययो भवति । कृतत् छेदने, कृत्तिका नक्षत्त्रम् । पुतिलती सौत्री, पुत्तिका-मधुमक्षिका लत्तिका-वाद्यविशेषः; गौः गोधा च, गोपूर्वात् गोलत्तिका-गृहगोलिका; अवपूर्वात् , अवलत्तिका-गोधा, आलत्तिका-गानप्रारम्भः । भिदृपी विदारणे, भित्तिका, कुड्यम् , माषादिचूर्णम् , शरावती च नदी ।। ७६ ॥ इष्यशि-मसिभ्यस्तकक् ॥ ७७ ॥ एभ्यस्तकक प्रत्ययो भवति । इषत् इच्छायाम् , इष्टका-मृद्विकारः। अशौटि व्याप्ती, अष्टकाः-श्राद्धतिथयस्तिस्रः, अष्टम्यः, पितृदेवत्यं च । मसैच् परिणामे, मस्तकःशिरः॥ ७७॥ भियो द्वे च ॥ ७॥ त्रिभीक भये, इत्यस्मात्तकक् प्रत्ययो भवति द्वे च रूपे भवतः । विभीतक: अक्षः ७८ ह-रुहि-पिण्डिभ्य ईतकः ।। ७६ ॥ एम्य ईतकः प्रत्ययो भवति । हृग् हरणे हरीतकी पथ्या । रुहं जन्मनि, रोहीतकःवृक्षविशेषः । पिडुङ संघाते, पिण्डीतकः-करहाटः ।। ७९ ॥ कुषः कित् ।। ८० ॥ कुषश् निष्कर्षे, इत्यस्मात् किदीकः प्रत्ययो भवति । कुषीतकः-ऋषिः ॥ ८ ॥ बलि-बिलि-शलि-दमिभ्य आहकः ॥ ८१ ॥ एभ्य आहक: प्रत्ययो भवति । बल प्राणनधान्यावरोधयोः, बलाहकः-मेघः, वातश्च । बिलत् भेदने, बिलाहकः-वज्रः । बाहुलकान्न गुणः । शल गती, शलाहकः-वायुः । दमूच् उपशमे, दमाहकः-शिष्यः ।। ८१॥
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy