SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ३५२ ] स्वोपज्ञोणादिगणसूत्र विवरणम् [ सूत्र- ६४-७२ कुलि- चिरिभ्यामिङ्कक् ॥ ६४ ॥ आभ्यामिङ्कक् प्रत्ययो भवति । कुल बन्धुसंस्त्यानयोः, कुलिङ्कः चटका । चिर हिंसायाम् सौत्रः, चिरिङ्क जलयन्त्रम् ।। ६४ । कलेरविङ्कः ।। ६५ ।। कलेरविङ्कः प्रत्ययो भवति । कलि शब्दसंख्यानयो, कलविङ्कः गृहचटकः ।। ६५ ॥ क्रमेरेलकः ॥ ६६ ॥ क्रमू पादविक्षेपे, इत्यस्मादेलक : प्रत्ययो भवति । क्रमेलकः करभः ।। ६६ ।। 1 जीवेरातृको जैव च ॥ ६७ ॥ 1 जीव प्राणधारणे, इत्यस्मादातृकः प्रत्ययो भवति, जैव इत्यादेशश्च भवति । जैवातृकः आयुष्मान् चन्द्रः आम्रः वैद्यः मेघश्च । जैवातृका जीवद्वत्सा स्त्री ।। ६७ ।। हृ-भू-लाभ्य आणकः ॥ ६८ ॥ भ्य आणकः प्रत्ययो भवति । हृग् हरणे, हराणक: चौरः । भू सत्तायाम्, भवाकः गृहपतिः । लां आदाने, लाणकः हस्ती ॥ ६८ ॥ प्रियः कित् ॥ ६६ ॥ प्रींग्श् तृप्तिकान्त्योः, इत्यस्मादाणकः प्रत्ययो भवति स च कित् भवति । प्रियाणकः पुत्रः ।। ६९ ॥ धा--लू - शिङ्खिभ्यः ॥ ७० ॥ योगविभाग उत्तरार्थः एभ्यश्च आणकः प्रत्ययो भवति । डुधांग्क् धारणे च, घाणकः दीनारद्वादशभागः हविषां ग्रहः छिद्रपिधानं च । लूग्श् छेदने, लवाणकः कालः तृणजातिः दात्रं च । शिघु आघ्राणे, शिङ्खाणकः नासिकामलः ॥ ७० ॥ शी-भी राजेश्वानकः ॥ ७१ ॥ शीभीराजिभ्यो घालूशिङ्घिभ्यश्च आनकः प्रत्ययो भवति । शीङक् स्वप्ने, शयानकः-अजगरः, शैलश्च । त्रिभींक् भये, बिभेत्यस्मादिति भयानक :- भीमः, व्याघ्रः, वराहः, राहुश्च । राजग् दीप्तौ राजानकः- क्षत्त्रियः । डुधांग्क् धारणे च, धानक :- हेमादिपरिमा णम् । लुग्श् छेदने, लवानक:- देशविशेषः, दात्रं च । शिङ्खन्त्यनेनेति शिङ्खानक:- श्लेष्मायुः पुरीषं च ।। ७१ ।। अडित् ॥ ७२ ॥ अडिदानकः प्रत्ययो भवति । अण् शब्दे, आनकः - पटहः ।। ७२ । 4
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy