SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ पाद-३, सूत्र-६७-७० ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः _ [२५ न्या० स०- समो०- ननु समं विना प्रतिज्ञायां गिरतेर्वृत्तिर्न दृश्यते, ततः किं समग्रहणेन ? सत्यं, केवलोऽप्यन्योपसर्गपूर्वोऽपि चं प्रतिज्ञायां वर्तते. उत्तरत्र पृथग्योगात् प्रतिज्ञायामिति निवृत्तमिति भणितेः, यदि ह्यन्योपसर्गपूर्वो न वर्त्तते तर्हि पृथग्योगादिति भणितेः किं फलम् ? । अवात् ।। ३. ३.६७॥ पृथग्योगात् प्रतिज्ञायामिति निवृत्तम् , अवपूर्वाद गिरते: कर्तर्यात्मनेपदं भवति । अवगिरते, अवादन्यत्र गिरति । गिर इत्येव ? अवगृणाति । अवपूर्वस्य । गृणातेः प्रयोगो नास्तीत्यन्ये ।। ६७ ।। निह्नवे ज्ञः ॥ ३. ३.६८॥ निह्नवोऽपलापः, तस्मिन् वर्तमानाज्जानातेः कर्तर्यात्मनेपदं भवति । शतमपजानीते, अपह नुते इत्यर्थः, अपेन चास्यायमर्थोऽभिव्यज्यते । निह्नव इति किम् ? तत्त्वं जानाति । ६८॥ सं-प्रतेरस्मृतौ ॥ ३. ३. ६६ ॥ सं-प्रतिभ्यां पराज्जानातेरस्मृतौ वर्तमानात् कर्तर्यात्मनेपदं भवति । शतं संजानीते, प्रवेक्षते इत्यर्थः । शतं प्रतिजानीते, शतेन संजानीते,-अभ्युपगच्छतीत्यर्थः । अस्मताविति किम् ? मातुः संजानाति, मातरं संजानाति,-स्मरतीयर्थः ।। ६९ ॥ न्या० स०-संप्रते०-शतेन संजानीते इति-'समो ज्ञोऽस्मृतौ वा' २-२-५१ इति वा तृतीया, तद्विकल्पे च पक्षे द्वितीया। अननोः सनः॥ ३. ३. ७०॥ सन्नन्ताज्जानातेः कर्तर्यात्मनेपदं भवति, स चेदनोरुपसर्गात परो न भवति । धर्म जिज्ञासते । अननोरिति किम् ? धर्ममनुजिज्ञासति । कथमौषधस्यानुजिज्ञासते ? अकर्मकात् "प्राग्वत्" [ ३. ३.७४ ] इत्यनेन भविष्यति ॥ ७० ॥ न्या० स०-अननो:-अकर्मकादित्यादि-सकर्मकादनेन आत्मनेपदं विधीयते न त्वकर्मकादिति प्रतिषेधाभावः, कथं पुनर्ज्ञायते अनेन सकर्मकाविधिरिति ? उच्चते, अकर्मकाद् ज्ञ इत्यनेन प्रागिष्टत्वात् सन्नन्तात् 'प्राग् व' ३-३-७४ इत्यनेनात्मनेपदे सिद्धे सकर्मकादेवाऽयं विधिरिति ज्ञायते ।
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy