SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ २४ ] बृहद्वृत्ति-लघुन्याससंवलिते [ पाद-३, सूत्र-६२-६६ उदोऽनूहे ॥ ३. ३. ६२ ॥ अनूवों य ईहश्चेष्टा, तत्र वर्तमानादुदः परात तिष्ठतेः कर्तर्यात्मनेपदं भवति । मुक्तावतिष्ठते, मुक्त्यर्थ चेष्टत इत्यर्थः। अनूर्वेति किम् ? आसनादुत्तिष्ठति । ईहेति किम् ? आसनाद ग्रामाच्छतमुत्तिष्ठति, सेनोत्तिष्ठति, उत्पद्यत इत्यर्थः ॥ ६२ ॥ सं-वि-प्राऽवात् ॥ ३. ३. ६३॥ एभ्यः परात् तिष्ठतेः कर्तर्यात्मनेपदं भवति । संतिष्ठते, वितिष्ठते, प्रतिष्ठते, अवतिष्ठते ।। ६३ ॥ ज्ञीप्सा-स्थेये ॥ ३. ३. ६४ ॥ परपरितोषार्थमात्मरूपादिप्रकाशनं-ज्ञीप्सा, तिष्ठन्त्यस्मिन्निति स्थेयः, रूढिवशाद विवादपदे निर्णेता प्रमाणभूतः पुरुष उच्यते। जीप्सायां स्थेय विषयायां च क्रियायां वर्तमानात तिष्ठतेः कर्तर्यात्मनेपदं भवति । तिष्ठते कन्या छात्रेभ्यः, तिष्ठते वृषली ग्रामेभ्यः, स्वाभिप्रायप्रकाशनेनात्मानं रोचयतीत्यर्थः । त्वयि तिष्ठते, मयि तिष्ठते, “संशय्य कर्णादिषु तिष्ठते यः" [ किराते ] कर्णादिस्थेयोपदिष्टं निर्णयतीत्यर्थः ।। ६४ ॥ - न्या० स०-जीप्सा०-स्थेय इत्यत्र बाहुलकात् अधिकरणेऽपि 'य एच्चातः' ५-१-२८ इति यः, व्युत्पत्तिसमये आधारस्य निर्णतत्वं न विवक्षितमिति वाक्ये परस्मैपदमेव, अधिकरणस्य प्रत्ययार्थत्वेऽपि नास्याधिकरणमात्रे वृत्तिः, किं तहि क्वचिदेव ? इत्याह-रूढिवशादित्यादि । प्रतिज्ञायाम् ॥ ३. ३. ६५ ॥ 'प्रतिज्ञा प्रभ्युपगमः, तत्र वर्तमानात् तिष्ठतेः कर्तर्यात्मनेपदं भवति । नित्यं शब्दमातिष्ठते, तदतदात्मकं तत्त्वमातिष्ठते । स्वभावाच्चायमाङ्पूर्व एव प्रतिज्ञायां वर्तते। योगविभाग उत्तरार्थः ॥ ६५ ।। न्या० स०-प्रतिज्ञा०-तदतदात्मकमिति-एकशेषोऽनित्यः, शब्दप्रधानो वा निर्देशः शब्दार्थयोरभेदेन चार्थो वाच्यः, स चासावसश्च तदसः, स आत्मा यस्येति कर्मधारयपूर्वो वा बहुव्रीहिः। समो गिरः ॥ ३. ३. ६६ ॥ सम्पूर्वाद गिरतेः प्रतिज्ञायां वर्तमानात् कर्तर्यात्मनेपदं भवति । स्याद्वादं संगिरते, प्रतिजानीत इत्यर्थः । प्रतिज्ञायामित्येव ? संगिरति प्रासम् । गिर इति निर्देशाद् गणातेन भवति ।। ६६ ।।
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy