________________
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-३, सूत्र-५
इति द्वित्वाभावः, अन्वित्यधिकाराद् वा पश्चात् 'अघोषे' १-३-५० इति तः, ततः सुइत्यस्यैव द्वित्वम् ।
अवो दा-धौ दा ॥ ३. ३.५ ॥
'दा घा' इत्येवंरूपौ धातू अवानुबन्धौ दासंज्ञौ भवतः । दारूपाश्चत्वारः, धारूपी द्वौ । दाम्-प्रणिदाता, देंङ्-प्रणिदयते, डुदांगक-प्रणिददाति, दोंच-प्रणिधति; धे-प्रणिधयति, डधांगक-प्रणिदधाति । दाधारूपोपलक्षितस्य दासंज्ञावचनात् 'दो दें ट्र्धे इत्येतेषां शिति दा-धारूपाभावेऽपि दासंज्ञा सिद्धा। दोङो दारूपस्य बहिरङ्गत्वान्न भवति, ततश्च 'उपादास्त' इत्यत्र "इश्च स्थादः" [ ४. ३. ४१ ] इतीत्वं न भवति । अवाविति किम् ? दांव-दातं बहिः, देव-अवदातं मुखम् । अविति वकारो न पकारः, दातियतिश्च वकारानुबन्धौ, तेन प्रणिदापयति प्रणिधापयतीत्यत्र दासंज्ञायां सत्यां नेणत्वं सिद्धम् । दाप्रवेशा:"हो दः" [ ४. १. ३१ ] इत्यादयः ॥ ५॥
वर्तमाना-तिव तस् अन्ति, सिक् थस् थ, मिव वस् मस् ; ते आते अन्ते, से आथे ध्ये, ए वहे महे ॥ ३. ३. ६ ॥
इमानि, वचनानि वर्तमानसंज्ञानि भवन्ति । वित्करणं "शिदवित्" [४. ३. २०] इत्यत्र विशेषणार्थम्, एवमन्यत्रापि वित्करणस्य प्रयोजनं द्रष्टव्यम् । वर्तमानाप्रदेशाः"स्मे च वर्तमाना" [ ५. २. १६ ] इत्येवमादयः ।। ६॥
न्या० स०-वर्तमाना-संज्ञिनां बहुत्वेऽपि संज्ञागतैकत्वाश्रयणात् वर्तमानेति संज्ञाया एकवचनं, वचनभेदेऽपि संज्ञासंज्ञिनिर्देशो भवत्यनवा नामीतिवत् ।
सप्तमी-यात् याताम् युस् , यास यातम् यात, याम् याव याम; ईत ईयाताम् ईरन् , ईथास् ईयाथाम् ईध्वम् , ईय ईवहि ईमहि ॥ ३.३.७॥
इमानि बचनानि सप्तमीसंज्ञानि भवन्ति । सप्तमीप्रदेशा:-"इच्छार्ये कर्मणः सप्तमी" [५. ४. ८६ ] इत्येवमादयः ॥ ७ ॥
पञ्चमी-तुव् ताम् अन्तु, हि तम् त, आनिव आवव आमव् ; ताम् श्राताम् अन्ताम् , स्त्र आथाम् चम्, ऐकू आवहैव् आमहैव् ॥३.३.८॥