SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १३८ ] बृहवृत्ति-लघुन्याससंवलिते [पाद २, सूत्र-११४-११९ तल्लक्षणयोगेऽपोति-तस्य प्लुतस्य यल्लक्षणं तद्योगेऽपीत्यर्थः। अनतोऽन्तोऽदात्मने ॥ ४. २. ११४ ॥ अनकारात्परस्यात्मनेपदसंबन्धिनोऽन्तरूपस्यावयवस्यात् इत्ययमादेशो भवति । चिन्वते, चिन्वताम् , अचिन्वत, लुनते, लुनताम् , प्रलुनत । आत्मनेपदस्येति.किम् ? चिन्वन्ति लुनन्ति । अनत इति किम् ? पचन्ते, पच्यन्ते ॥ ११४ ।। न्या० स० अनतो०-पचन्ते, पच्यन्ते इति-प्राचः परो विधिरिति व्याख्यानेन अकारस्य स्थानित्वं भूतपूर्वकन्यायाद् वा। शीङो रत् ॥ ४. २. ११५॥ शोङः परस्यात्मनेपदसंबन्धिनोऽन्तो रत् इत्ययमादेशो भवति । शेरते, शेरताम् ; अशेरत ॥ ११५॥ न्या० स०-शोडो-यङ लुपि व्यति शेश्यते । वेत्तेर्नवा ॥ ४. २. ११६ ॥ वेत्तेः परस्यात्मनेपदसंबन्धिनोऽन्तो रत् इत्ययमादेशो वा भवति । संविद्रते, संविद्वताम् , समविद्रत, पक्षे,-संविदते, संविदताम् , समविदत । आत्मन इत्येव,-विदन्ति, वेत्तेरिति किम् ? रौधादिकस्य मा भूत्-विन्दते ॥ ११६ ।। न्या० स०-वेत्ते.-वेत्तेस्तिनिर्देशो यङ लुपि निवृत्त्यर्थश्च तेन व्यतिवेविदते । तिवां णवः परस्मै ॥ ४. २. ११७॥ वेत्तेः परेषां परस्मैपदसंबन्धिनां तिवादीनां नवानां प्रत्ययानां स्थाने परस्मैपदसंबन्धिन एव णवादयो नवादेशा यथासंख्यं वा भवन्ति । . वेद, विदतुः, विदुः, वेत्थ, विदथः, विद, वेद; विद्व, विन, वेत्ति, वित्तः, विदन्ति, वेत्सि, वित्थः, वित्थ, वेधि, विद्वः, विद्मः ॥ ११७॥ न्या० स०-तिवां-णवादय इति-अमीषां तदादेशेति न्यायात्परोक्षाकार्य न भवति । ब्रगः पञ्चानां पञ्चाहश्च ॥ ४, २. ११८॥ ब्रगः परेषां तिवादीनां पश्चानां स्थाने यथासंख्यं पञ्च णवादय आवेशा वा भवन्ति, तत्संनियोगे ब्रूग आह इत्यादेशश्च भवति । आह, पाहतुः, आहुः आत्थ 'नहाहोर्धतौ' (२-१-८०६) इति हकारस्य तकारः । आहथः, ब्रवीति, ब तः, अवन्ति, ब्रवीषि, ब्रूथः । पञ्चानामिति किम् ? बूथ ।। ११८ ॥ आशिषि तुह्योस्तातङ् ॥ १. २. १११ ॥
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy