SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ पाद - २, सूत्र- ११०-११३ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः [ १३७ क्रमेः परस्मैपदे शिति परे दीर्घो भवति अत्यादौ क्रामति, क्राम्यति, क्रामन्, क्राम्यन्, अक्रामन् परस्मैपद इति किम् ? श्राक्रमते सूर्यः, आक्रममाणः । परस्मैपदनिमित्तविज्ञानाद्धेलु क्यपि भवति । क्राम, संक्राम ।। १०६ ॥ , ष्ठिवूक्लम्वाचमः ॥ ४. २. ११० ॥ food: क्लमेराङ्पूर्वस्य च चमेः शिति परे दीर्घो भवति अत्यादौ-ष्ठीवति, देवादिकस्य तु ष्ठिवो दीर्घाऽस्त्येव । क्लामति, क्लाम्यति, प्राचामति । चमेराङपूर्वस्य ग्रहणादिह न भवति, चमति विचमति । ष्ठिव्क्लमोरूकार निर्देशाद्यङ लुपि न भवति, तेष्ठिवत्, चंवलमत् । 'अन्तो नो लुक्' (४-२-६४ ) ।। ११० ।। शम्सप्तकस्य श्ये ।। ४. २. १११ ॥ अत्यादाविति निवृत्तम् - शमादीनां मदैच्पर्यन्तानां सप्तानां श्ये परे दीर्घो भवति । शाम्यति, दाम्यति, ताम्यति, श्राम्यति, भ्राम्यति, क्षाम्यति, माद्यति । शम्सप्तकस्येति किम् ? अस्यति । श्य इति किम् ? भ्रमति ।। १११ ॥ न्या० स०-शम् सप्त०- भ्रमतीति-भ्रमूच् अनवस्थाने इत्यस्य रूपं, अस्य यङलुपि न दीर्घः शमादिगणनिर्देशात् श्यस्तु भवत्येव 'भ्रासभ्लास' ३-४-७३ इति प्रतिपदोक्तत्वात् तेन बंभ्रम्यतीति भवति । 1 " ष्ठिवसिवोऽनटि वा ॥ ४. २. ११२ ॥ fष्ठवः सोव्यतेश्वानटि वा दीर्घो भवति । निष्ठीवनम् निष्ठेवनम् सीवनम् सेवनम् ।। ११२ ।। मव्यस्याः ॥ ४. २. ११३ ॥ धातोविहिते मकारादौ वकासदौ च प्रत्ययेऽकारस्याकारो दीर्घो भवति । पचामि, पचावः, पचामः पंचावहे, पचामहे । वयो यङ्लुपि-वावामि, वावावः, वावामः । धातोः प्रत्ययेनाभिसंबन्धो नाकारेणेति प्रत्ययाकारस्यापि दीर्घो भवति । अस्येति किम् ? चिनुवः चिनुमः, रुवः, रुमः । आकारास्य दीर्घत्वेन विशेषणमाकारो दीर्घ एव यथा स्यात् न प्लुतः तल्लक्षणयोगेऽपीत्येवमर्थम् ।। ११३ ।। न्या० स०- मव्यस्या० - वावाव इति यत्र धातोराकारान्तत्वे सति व्युक्तत्वं तत्र 'एषामी' ४ - २ - ९७ इति ईत्वं यत्र युक्तत्वे सति आकारान्तत्वं तत्र लाक्षणिकत्वात् आकारस्य न ईत्वं तेनात्र न ईकारः । आकारस्य दीर्घत्वेनेति - वृत्तावाकारो दीर्घो भवतीति किमर्थमुक्तं यतः आकारो दीर्घ एवेत्याशङ्का न लूत इति । स्वमते तु 'सम्मत्यसूया' ७-४-८९ इत्यतः सूत्रात् अन्त्य इत्यधिकारे 'प्रश्ने च' ७-४-९८ इति प्लुतो न प्राप्नोति; परं केचिदनन्त्यस्यापि इच्छन्ति, तन्मते माभूदित्यर्थः ।
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy