SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ [पा० २. सू० ४८.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५६५ सार्था गच्छन्ति-अवरे च अपरे च सकृदेव गच्छन्तीत्यर्थः । प्रास्पदं प्रतिष्ठायाम्-प्रतिष्ठा स्थानमात्मयापनापदम्, अन्यत्र आ ईषत् पदमा पदाद्वा प्रापदम्, आश्चर्यमद्भुते । आश्चर्य नीला द्यौः, अन्यत्र आश्चर्यं कर्म शोभनम्, प्रतिष्कशः सहाये-पुरोयायिनि दूते वा, ग्राममध्ये प्रवक्ष्यामि भव मे त्वं प्रतिष्कशः, अन्यत्र कशां प्रतिगतः प्रतिकशोऽश्वः, प्रस्कण्वहरिश्चन्द्रावृषौ, । 5 प्रगतं कण्वं पापमस्मादिति प्रस्कण्वः, हरिश्चन्द्र इवाह लादको यस्य हरिश्चन्द्रः, ऋषेरन्यत्र प्रकण्वो देशः, हरिचन्द्रो माणवकः, मस्करो वेण दण्डयोः । मा क्रियते प्रतिषिध्यतेऽनेनेति मस्करः, मकरशब्दस्य वाऽव्युत्पन्नस्य मस्कर इति रूपम्, अन्यत्र मकरो ग्राहः, मस्करी परिव्राजके-माकरणशीलो मस्करी, स ह्याह मा कृषत कर्माणि शान्तिर्वः श्रेयसीति, मकरिन्शब्दस्य वा मस्करीति10 रूपम्, अन्यत्र मकरीति, समुद्रः, कास्तीराजस्तुन्दे नगरे, ईषत्तीरमजस्येव तुन्दमस्येति व्युत्पत्तिमात्रम्, कास्तोरमजस्तुन्दं च नगरम्, अन्यत्र कातीरम्, अजतुन्दम्, कारस्करो वृक्षे-कार करोति किल कारस्करो वृक्षः, कारकरोऽन्यः, वनस्पतिः पुष्पं विना फलवति वृक्षे। सर्वो हरितकायो वनस्पतिरित्यन्ये, वनपतिरन्यः, पारस्करो देशे, पारं करोति पारस्करो देशः, पारकरोऽन्यः,15 करस्करो गिरिवृक्षयोः, करं करोतीति करस्करो नाम गिरिः, करस्करो वृक्षः, करकरोऽन्यः, रथस्पा नद्याम् । ___रथं पाति पिबति वा रथस्पा नाम नदी, रथपाऽन्या, किष्कुरुः प्रहरणेकस्य कुरुः किष्कुरु: नाम प्रहरणम्, किमो मकारस्य षकारादेश , किष्कुः प्रमाणे-किमपीषत्यरिमेया कुर्भू मिरस्य किष्कुः वितस्तिहस्तो वा, किं20 करोतीति वा किष्कुः, करोतेथुप्रत्ययः किमो मकारस्य च षकारः, कार्य करोतीति वा किष्कुः, डुप्रत्ययः कार्यशब्दस्य च किष्भावः, किष्किन्ध इति गुहापर्वतयोः-किमप्यन्तर्दधाति किष्किन्धा नाम गुहा, किमो द्विर्वचनं पूर्वस्य च मकारस्य षकारः, किं किं दधाति किष्किन्धः पर्वतः, आस्कथं नगरे, आहृताः कथा अस्मिन्नित्यास्कथं नाम नगरम्, तस्करश्चौरे-तत् करोति तस्करश्चौरः,25 बृहस्पतिर्देवतायाम्, बृहतां पतिः बृहन् पतिरिति वा बृहस्पतिः, उभयत्र तकारस्य सकारः, अन्यत्र तत्करः बृहत्पतिः, प्रायश्चित्तप्रायश्चित्तो प्रतीचार
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy