SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ ५६४ ] बृहद वृत्ति - लघुन्याससंवलिते [पा० २. सू ४६-४८.] इत्येतावादेशौ वा भवतः । दिवस्पृथिव्यौ, दिवः पृथिव्यौ, द्यावापृथिव्यौ । दिवः इति विसर्गान्तस्य निर्देशात् दिवस् इति सकारस्य रुत्वं न भवति ।। ४५ । उषासोषसः ॥ ३. २. ४६ ॥ देवताद्व ंद्व उत्तरपदे परे उषस् शब्दस्योषासा इत्ययमादेशो भवति । 5 उषश्च सूर्यश्च उषासासूर्यम्, उषासानक्तम्, उषासानक्त । केचित्तु सूर्य शब्दस्यापीच्छन्ति - सूर्यश्च सोमश्च उषासासोमा ।। ४६ ।। उषः शब्दः प्रभातवाचको नपुंसकः । संध्या न्या० स० -- उषासोषसः । वाचकस्तु स्त्रीक्लीब: ।। ३. २. ४६ ।। मातरपितरं वा ।। ३. २. ४७ ।। मातृपितृशब्दयोः पूर्वोत्तरपदयोर्द्वन्द्व े मातरपितरेति ऋकारस्य अर इति निपात्यते वा । माता च पिता च मातरपितरौ मातरपितराभ्याम्, मातरपितरयोः, पक्षे-मातापितरौ मातापितृभ्याम्, मातापित्रोः, एकशेषे तु पितरौ । शब्दरूपापेक्षो नपुंसकैकवचननिर्देश उत्तरपदस्य अरभावाभिव्यक्त्यर्थः । उत्तरपदस्यारं नेच्छन्त्यन्ये ।। ४७ ।। न्या० स०--मातर० । अरभावाभिव्य इति अन्यथा मातरपितराविति कृते 'अङौं च ' [ १.४.३६ ] इत्यरादेशोऽपि संभाव्येत ।। ३ २ ४७ ।। 10 15 वर्चस्कादिष्ववस्करादयः ॥ ३. २.४८ ॥ शब्दाः कुत्सितं वर्चो वर्चस्कम् तदादिष्वर्थेष्ववस्करादयः कृतशषसाद्युत्तरपदाः साधवो भवन्ति । वर्चस्केऽवस्करः, अवकीर्यतेऽवस्करः-20 अन्नमलम्, तत्संबन्धात्तद्द शोप्यवस्करः, प्रवकरोऽन्यः, अपस्करो रथाङ्गे, अपकरोऽन्यः । कुत्सिता तुम्बुरुः कुस्तुम्बुरुरौषधिजातौ, तत्फलान्यपि कुस्तुम्बुरूरिण, अन्यत्र कुस्तुम्बुरुस्तिन्बुकवृक्षः । अवरस्परा, अपरस्परा वा क्रियासातत्ये, - प्रवरस्पराः साथ गच्छन्ति - सततं गच्छन्तीत्यर्थः, अन्यत्रावरपराः 4
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy