SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ ५०२ ] बृहद्वृत्ति - लघुन्याससंवलिते [ पा० १. सू० ११६. ] साहंपूर्विका, एवमहं प्रथमिका, अहमहमिति यस्यां साहमहमिका, विकृतं च प्रकृतं च यस्यां सा विचप्रका, निश्चितं च प्रचितं च यस्यां सा निश्चप्रचा, या इच्छा यस्यां सा यदृच्छा, एषु सर्वेषु क्रियैवान्यपदार्थ: । ' ह्यन्तं स्वकर्मणा बहुलमाभीक्ष्ण्ये कर्तरि समासाभिधेये' - जहि जोडमित्यभीक्ष्णं य ग्राह स उच्यते जहिजोडः। एवमुज्जहिजोडः, जहिस्तम्बः, उज्जहिस्तम्बः, कुरुकटः बहुलवचनान्न 5 च भवति-पचौदनमित्यभीक्ष्णमाह, स्नात्वा कालीभूतः स्नात्वाकालकः, एवं पीत्वास्थिरकः, भुक्त्वासुहितः, प्रोष्य विप्रयुक्तो भूत्वा पापीयान्निःस्नेहो भवति स प्रोष्यपापीपान्, उत्पत्याकाशे भूत्वा या पाकला पाण्डुर्भवति सोत्पत्यपाकला, निपत्य भूमौ निपतिता रोहिणी या रक्ता भवति सा निपत्यरोहिणी, निषद्य निषण्णा सती श्यामा जाता निषद्यश्यामा, निषण्णा श्यामा जाता निषण्ण - 10 श्यामा, उदक् चावाक् च उच्चितं चावचितं चेति वा उच्चावचम्, उच्चैश्च नीचैश्च उच्चितं च निचितं चेति वा उच्चनीचम्, प्रचितं चोपचितं च प्राचोपचम्, प्राचितं च अवचितं च प्राचोवचम्, प्राचितं च पराचितं च अर्वाक् च परस्ताच्चेति वा चपराचम्, निश्चितं च प्रचितं च निश्चप्रचम्, निष्कुषितं च निस्त्वचं च निश्चत्वचम् न भवति किंचन न क्वचिदुपयुज्यत 15 इति अकिंचनम्, नास्य कुतोऽपि भयमस्तीत्यकुतोभयम्, 'गतप्रत्यागतादय:'गतं च तत्प्रत्यागतं च गतप्रत्यागतम्, एवं यातानुयातम्, महान्क्रयोऽल्पः ऋयिका क्रयावयवयोगात् क्रयः क्रयिकावयवयोगात् क्रयिका क्रयश्चासौ क्रयिका च क्रयक्रयिका समुदायः, एवं पुटापुटिका, फलाफलिका, मानोन्मानिका, - एषु व्यवस्थित पूर्वोत्तरपदसमासः । J 20 'शाकपार्थिवादयः' - शाकप्रियः शाकभोजी शाकप्रधानो वा पार्थिवःपृथोरपत्यं शाकपार्थिवः, पृथिव्या ईश्वरः पार्थिवः इति वा तेन शाकपार्थिवः कुतपवस्त्रसौश्रुतः, सुश्रुतोऽपत्यं सौश्रुतः, कुतपसौश्रुतः प्रजापण्यस्तौल्वलिः, अजातौल्वलिः, यष्टिप्रहरणो यो मौद्गल्यः यष्टिमौद्गल्यः, एवं परशुरामः, घृतप्रधाना रोटिः घृत रोटि:, एवमोदनपाणिनिः, आणिमाण्डव्यः बलाकाकौशिकः, 25 विदर्भीकौण्डिन्यः, सहस्रबाहुरर्जुनः सहस्रार्जुनः, त्र्यवयवा विद्या त्रिविद्या, एकाधिका दश एकादश, एवं द्वादश, षोडश, एकविंशतिः, द्वाविंशतिः, एक
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy