SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ [ पा० १. सू० ११६. ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५०१ मयूरव्यंसकेत्यादयः ॥ ३. १. ११६ ॥ निपात्यन्ते । विगतावंसावस्य मयूरव्यंसकादयस्तत्पुरुषसमासा व्यंसस्तत्तुल्यो व्यंसकः, व्यंसयति वा छलयति व्यंसकः, व्यंसकश्वासौ मयूरश्च मयूरव्यंसकः, एवं छात्रव्यंसकः, मुण्डश्चासौ कम्बोजश्च कम्बोजमुण्डः, एवं यवनमुण्डः, व्यंसका चासौ मयूरी च मयूरव्यंसका, कर्मधारयलक्षणः पुंवद्भावः, 5 एतेषु विशेष्यस्य पूर्वनिपातनम् । ' एहीडादयोऽन्यपदार्थे' एहि इडे स्त्रि इति जल्पो यस्मिन् कर्मरिण काले वा तत् एहीडं वर्तते, एहि यवैरिति जल्पो यत्र कर्मणि काले वा तदेहियवं वर्तते, एतौ निपातनान्नपुंसकौ, एहि वाणिजेति जल्पो यस्यां क्रियायां सैहिवाणिजा, एवं प्रेहिवाणिजा, प्रपेहिवाणिजा, एहि स्वागता, हिस्वागता, एहिद्वितीया, प्रपेहिद्वितीया, एहिप्रघसा, अपेहिप्रघसा, 10 एहिविघसा, अपेहिविघसा, एहिप्रकसा, अपेहिप्रकसा । प्रोह कटमिति जल्पो यस्यां सा प्रोहकटा क्रिया, एवं प्रोहकर्दमा, प्रोहक पर्दा । उद्धम चूडे उद्धम चूडामिति वा जल्पो यस्यां सोद्धमचूडा क्रिया, आहर चेलमिति यस्यां सा आहरचेला क्रिया, एवमाहरवसना, आहरवितता, कृन्धि विचक्षणेति कृन्धि विचक्षणमिति वा यस्यां सा कृन्धिविचक्षरणा क्रिया, 15 fभfन्ध लवमिति यस्यां सा भिन्धिलवरणा, एवं पचलवरणा, उद्धरोत्सृजेति जल्पो यस्यां सोद्धरोत्सृजा, एवमुद्धरावसृजा, उद्धमविधमा, उद्वपनिवपा, उत्पतनिपता, उत्पचनिपचा । कृन्धि विक्षिणीहिति कृन्धि विक्षण, इति वा यस्यां सा कृन्धिविक्षणा । उन्मृजावमृजेति यस्यां सोन्मृजावमृजा, अत एव निपातनादिहैव च मृजेहौं शो भवति । 'प्राख्यातमाख्यातेन सातत्ये' - प्रश्नीत 20 पिबतेति सातत्येनोच्यते यस्यां साश्नीतपिबता, अश्नीतपचता, एवं खादतमोदता, पचतभृज्जता, लुनीतपुनीता, खादाचामा, प्रहरनिवपा, आवपनिष्किरा, पचप्रकूला, इह द्वितीयेति यस्यां क्रियायां सेहद्वितीया, एवमिह - पञ्चमी, अद्यद्वितीया, अद्यपञ्चमी । एहिरे याहिरे इति यस्यां क्रियायां सैहिरेयाहिरा, एवमेहिरेगच्छरा, 25 अहो अहं पुरुष इति यस्यां क्रियायां साहोपुरुषिका, अहं पूर्व इति यस्यां
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy