SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ [पा० १. सू०८६-६१.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ४७६ पृथिवीप्रणतः, अन्तेगुरुः, मध्येगुरुः, 'ऋणेऽधम'-अधमर्णः, 'ऋणे उत्तमः'उत्तमर्णः, राजदन्तादित्वात्परनिपात इत्यादि सिद्धं भवति ।। ८८ ।। न्या० स०--सप्तमी०। व्यालेति व्याङ पूर्वादडतेरचि लत्वे च। प्रायसेति आयस्यतीत्यचि अलस इत्यर्थः । व्यानेति अनितेर्घत्रि आनस्ततो विवृद्ध आनो बलमस्य आसक्त इत्यर्थः। सवीरणेति सह वीण इव दक्षिण इत्यर्थः, इह गौरण इति 5 परमार्थतो मद्यप: शौण्ड इत्युच्यते व्यसनी तु गौणवृत्त्या, आपतनं भावे घत्रि आपाते प्रारम्भे रमणीय आपातरमणीयः ।। ३. १.८८ ।। सिंहाथै पूजायाम् ॥ ३. १. ८६ ॥ सप्तम्यन्तं नाम सिंहाद्यैर्नामभिः सह समस्यते, पूजायां गम्यमानायाम्, तत्पुरुषश्च समासो भवति । समरे सिंह इव-समरसिंहः । एवं रणव्याघ्रः,10 भूमिवासवः, कलियुधिष्ठिरः, उपमयात्र पूजावगम्यते बहुवचनमाकृतिगणार्थम् ।। ८६ ॥ काकाद्यै क्षेपे ॥ ३. १. ६० ॥ सप्तम्यन्तं नाम काकाद्यैर्नामभिः सह समस्यते, क्षेपे गम्यमाने, तत्पुरुषश्च समासो भवति। तीर्थे काक इव तीर्थकाकः, एवं तीर्थध्वाङ्क्षः,15 तीर्थवायसः, तीर्थबकः, तीर्थश्वा, तीर्थसारमेयः, तीर्थकुक्कुटः, तीर्थशृगालः,अनवस्थित एवमुच्यते, उपमया चात्र क्षेपो गम्यते । क्षेप इति किम् ? तीर्थे काकस्तिष्ठति, वहुवचनमाकृतिगणार्थम् ।। ६० ।। न्या० स०--काका० । तीर्थसारमेय इति सारो मेयोऽस्य यद्वा सरमा शुनी तस्या अपत्यं 'चतुष्पाभ्य एयञ्' [ ६. १. ८३. ] कुकुर इत्यर्थः । अनवस्थित इति20 यथा काकादिस्तीर्थफलमजानन् अचिरस्थायी भवत्येवं यो देवदत्तादिः कार्याण्यारभ्य तेष्वनिर्वाहक: स तीर्थाधारेण काकादिनोपमीयमानः क्षिप्यत इत्यस्ति क्षेपस्य गम्यमानतेत्याह-अनवस्थितेत्यादि ।। ३. १. ६० ।। .... . पात्रसमितेत्यादयः ॥ ३. १. ६१ ॥ पात्रेसमितादयः सप्तमीतत्पुरुषा निपात्यन्ते, क्षेपे गम्यमाने । पात्र एव 25
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy