SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ ४७८ ] . बृहद्वृत्ति-लघुन्याससंवलिते... पा० १. सू० ८८.] शौक्ल्यादिशब्दैर्द्धर्ममात्रमेवाभिधीयते। सुरभिरिति सुष्, रभते 'पदिपठि' ६०७ । (उणादि) इति इ प्रत्ययः, आगमस्यानित्यत्वात् 'रभोऽपरोक्षा' [ ४. ४. १०२. ] इति न। अर्थात् प्रकरणाद् वेति ननु शुक्लादिवर्णादेविशेषणम्, पटस्य शुक्लो वर्ण इति ततश्च पटादेर्वण्र्णादिना संबन्धो न तु शुक्लादिविशेषणेनेति पष्ठ्यन्तस्य समासप्राप्तिरेव नास्तीत्याशङ्का। अस्वास्थ्यमस्त्येवेति गुणग्रहणेन ये गुणा द्रव्यस्य विशेषणं भवन्ति, 5 शुक्ल: पट इत्यादौ ये च भूतपूर्वगत्या ट्यणाद्यन्ताः शौक्ल्यादयस्तेऽपि गृह्यन्ते, यतः शुक्लशौक्ल्यमिति, एवं मधुरमाधुर्यादीनामपि । ननु अनेनैव व्याख्यानेन पटस्य शुक्ल इत्यादिष्वेव निषेधः प्राप्त: यतो यथा शुक्ल: पट इत्यादौ द्रव्येऽपि वृत्तिस्तथा न शौक्ल्यशब्दस्य द्रव्ये वृत्तिर्यत: शौक्ल्यशब्देन गुणमात्रमेवाभिधीयते न द्रव्यम् ? उच्यते, यद्यपि शौक्ल्यशब्दो द्रव्ये न वर्तते तथापि शौक्ल्यशब्दो गुणवचनः, ततो यद्यप्ययं द्रव्यं वक्तु 10 न शक्नोति तथापि आत्मीयशुक्ललक्षणेन शब्देन यदि वादयति तहि भवत्येव, आत्मीयत्वं चानयोर्गुणमात्रवृत्तित्वात्, यथा कश्चित् पुमान् भार्यायाः पार्थात् पित्रोभक्ति कारयति ततो यद्यात्मना न करोति तथापि भक्ति कुर्वन्नभिधीयते एवमत्राऽपि भविष्यति । तद्विशेषरेवायमिति तद्विशेषाश्च शुक्लादयो मधुरादयः सुरभ्यसुरभी शीतादयश्च गुणा गृह्यन्ते, तेषामेव द्रव्य विशेषणत्वसंभवात्, तेन रूपादीनां न ग्रहः, न हि ते द्रव्यस्य विशेषणं भवन्ति 15 पटो रूपं, गुडो रसः, चन्दनं गन्धः स्तनस्पर्शः इति । रूपादिविशेषा ये शुक्लादयस्त एव गृह्यन्ते, तेन गौरवादयः संख्यादयो वैशेषिकप्रसिद्धाश्च न गृह्यन्ते । वाङ्माधुर्यमिति रसनेन्द्रियग्राह्य एव रसो लोके मधुरशब्दस्य रूढोऽत्र तूपचारादिति न गुडस्य माधुर्यमितिवनिषेधः, यतो गौणमुख्यन्यायेन मुख्यो लौकिको गुणः समासाभावं प्रयोजयतीति । बहलाधिकारादिति ननु कण्टकस्य तेक्षण्यमित्यादौ तक्षा , ततो20 द्वीन्द्रियग्राह्याणां न गुणत्वं किं त्वेकेन्द्रियग्राह्याणामेवेति वैशेषिकमतम्, ततः समासः प्राप्तः, कुसुमसौरभ्यमित्यादौ च पटस्य शौक्ल्यमितिवत् समासाभावप्रसङ्गस्तदेतदुभयं कथमित्याशङ्का ।। ३. १८७ ।। सप्तमी शौण्डायैः ॥ ३. १. ८८ ॥ सप्तम्यन्तं नाम शौण्डाद्यैर्नामभिः सह समस्यते, तत्पुरुषश्च समासो25 भवति । पाने प्रसक्तः शौण्ड:-पानशौण्डः, पानशौण्डो मद्यपः, अक्षेषु प्रसक्तःशौण्ड इव अक्षशौण्डः, शौण्डशब्द इह गौणो व्यसनिनि वर्तते, वृत्तौ प्रसक्तिक्रियाया अन्तर्भावादप्रयोगः, अक्षधूर्तः। अक्षकितवः । शौण्ड धूर्त, कितव, व्याल, सव्य, प्रायस, व्यान, सवीण, अन्तर, अधीन, पटु, पण्डित कुशल, चपल, निपुण, सिद्ध, शुष्क, पक्व बन्ध, बहुवचनमाकृतिगणार्थम् 130 तेन शिरः शेखरः, हस्तकटकः, आपातरमणीयः, अवसानविरसः, पृथिवीविदितः,
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy