SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ २०० सिद्धान्त-लक्षण-जागदोशी। जागदीशी -अतो गगनाभावमादायैव प्रसिद्धेर्न कोऽपि दोषः, न चैवं यद्यत्सम्बन्धेन यद्धर्मावच्छिन्नानधिकरणं हेत्वधिकरणं; तत्तत्सम्बन्धान्यसाध्यतावच्छेदकसम्बन्धेन तद्धर्मावच्छिन्नसामानाधिकरण्यमेव लाघवाड्याप्तिरस्तु, विशतिः तदन्यो घटाभावः, स एव प्रतियोगिव्यधिकरणः, 'टवान् महाकालत्वा'दित्यत्र तु गगनाभाव एव तथा, गगनस्य कालिकेनाधिकरणत्वाप्रसिद्ध्या 'यदभाव'पदेन तस्य धर्तमशक्यत्वात् । केवलान्वयिनि 'वाच्यं ज्ञेयत्वा'दित्यादौ सर्वत्र समवायावच्छिन्नवाच्यत्वाभाव. मादायोक्तरीत्या लक्षणसमन्वयप्रकारः स्वयमूहनीयः।। ___ सम्बन्धसामान्येन प्रतियोग्यधिकरणत्वविवक्षणे 'धूमवान्वह्ररित्यत्रातिव्याप्तिः, वह्वयधिकरणे सर्वत्रैव संयोगेन धूमाभावप्रतियोगिनो धूमस्य कालिकेनाधिकरणतायाः सत्त्वेन,-'यदभाव'पदेन धूमाभावमुपादाय, तदन्यगगनाभावप्रतियोगिता. नवच्छेदकत्वस्य साध्यतावच्छेदके धूमत्वेऽक्षतत्वादतः 'साध्यतावच्छेदकसम्बन्धेने' त्युक्तम् । तथा सति संयोगेन धूमाभावप्रतियोगिनो धूमस्य संयोगेनाधिकरणताया अयोगोलके विरहेण 'यदभाव'पदेन धूमाभावस्य धर्तमशक्यत्वात् , तादृशवह्वयभाव. भिन्नत्वस्य धूमाभावे सत्त्वेनातिव्याप्तिविरहात् । ... हेत्वधिकरणत्वव्यापकत्वानिवेशेऽपि तत्रैवातिव्याप्तिः, यत्किञ्चिद्वयधिकरणे पर्वतादौ धूमाभावप्रतियोगिनो धूमस्य संयोगेनाधिकरणताया विद्यमानतया यदभाव' पदेन धूमाभावस्य धतुं शक्यत्वात् । 'व्यापकत्व'निवेशे च वह्वयधिकरणेऽयापिण्डे संयोगेन धूमाधिकरणताया असत्त्वेन 'यदभाव'पदेन वयभावमुपादाय नातिव्याप्तिरिति दिक् । न चैवमिति । एवं = निरुक्तरीत्या प्रतियोगिवैयधिकरण्यविवक्षणे, यद्यदिति । तथा च यद्यत्सम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नानधिकरणं हेत्व दीपिका यद्यत्सम्बन्धेनेति । संसर्गविशिष्टान्यसाध्यतावच्छेदकसम्बन्धावच्छिन्न. साध्यसामानाधिकरण्यं व्याप्तिरित्यर्थः। वैशिष्टयञ्च,-स्वतादात्म्य, स्वावच्छिन्नसाध्यतावच्छेदकावच्छिन्ननिरूपकतानिरूपिताधिकरणत्वाभाववद्धत्वधिकरणवृत्त्यभाव - प्रतियोगिप्रतियोगिकत्वोभयसम्बन्धेन ।
SR No.032123
Book TitleSiddhant Lakshan
Original Sutra AuthorN/A
AuthorGaneshopadhyay, Guru Prasad Shastri
PublisherMster Khelari Lal & Sons
Publication Year1933
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy