SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ विवृति-दीपिकालङ्कृता । जगदीशी -नोक्तदोष" इत्यस्मद्गुरुचरणाः । नव्यास्तु - " साध्यतावच्छेदकसम्बन्धेन स्वप्रतियोग्यधिकरण यावद्धे त्वधिकरणको यो यस्तदन्यत्वं प्रतियोगिवैयधिकरण्यं वाच्यम्, विटति: १६६ यादृशप्रतियोगितावच्छेदकावच्छिन्नत्वाभावः, यादृशप्रतियोगितावच्छेदकावच्छिन्नत्वधिकरणवृत्तितायां वा, - साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वाभावः तादृशप्रतियोगितानवच्छेदकत्वमेव निवेश्यतामिति वाच्यम् । 'संयोगी गुणान्यत्वे सति नित्यत्वा'दित्यत्रातिव्याप्यापत्तेः, सामान्यादिनिरूपितसमवायावच्छिन्नवृत्तित्वस्य, संयोगत्वा - वच्छिन्नवृत्तित्वस्य चाप्रसिद्धः । नित्यद्रव्यनिरूपितसमवायावच्छिन्नवृत्तितायां संयोगत्वावच्छिन्नत्वस्य, संयोगत्वावच्छिन्ननित्यद्रव्यवृत्तितायाञ्च समवायावच्छिन्नत्वस्य विद्यमानतया - साध्याभावस्य लक्षणाघटकत्वादिति ध्येयम् । नोक्तदोष इति । हेत्वधिकरणसामान्यादिनिरूपितवृत्तितासामान्यस्यैव संयोगत्वावच्छिन्नत्व, – समवायावच्छिन्नत्वोभयाभाववत्त्वेन संयोगाभावस्य लक्षणघटकत्वात्संयोगी गुणकर्मान्यत्वादित्यत्र नातिव्याप्तिरूपो दोषः । 'घटवान् महाकालत्वा' दित्यत्र च महाकाल निरूपितवृत्तितासामान्य एव गगनत्वावच्छिन्नत्व, कालिकसम्बन्धावच्छिन्नत्वोभयाभावसत्त्वाद्गगनाभावमादायैव लक्षणसमन्वयान्नाव्याप्तिरित्यर्थः । गगनस्यावृत्तित्वमते प्रकारान्तरेण गगनाभावस्य 'प्रतियोगिवैयधिकरण्यमुपपादयतां नव्यानां मतमाह- - नव्यास्त्विति । 'प्राहु'रिति परेणान्वयः । साध्यतावच्छेदकेति । तथा च यदभावप्रतियोगितावच्छेदकावच्छिन्न साध्यतावच्छेदकसम्बन्धावच्छिन्नाधिकरणत्वं हेत्वधिकरणताव्यापकं तदभावभिन्नाभावः 'प्रतियोगिव्यधिकरण' इत्यर्थः । एतेन यत्रैकमेव हेत्वधिकरणं तत्र हेत्वधिकरणे यावत्त्वाप्रसिद्ध्याऽव्याप्तिरित्यपि- समाहितं । 'वह्निमान्धूमा' दित्यत्र धूमाधिकरणताव्यापक प्रतियोग्यधिकरणताको वह्नयभावः दीपिका 9 नव्यास्त्विति । अभावविशिष्टान्यो योऽभावः स एव 'प्रतियोगिव्यधिकरणहेतुसमानाधिकरण' पदेन उच्यः, वैशिष्टयश्च - स्वतादात्म्य, स्वप्रतियोगितावच्छेदकावच्छिन्नसाध्यतावच्छेदकसम्बन्धावच्छिन निरूपकतानिरूपित - हे त्वधिकरणतायापकाधिकरणता — कत्वोभयसम्बन्धेन ।
SR No.032123
Book TitleSiddhant Lakshan
Original Sutra AuthorN/A
AuthorGaneshopadhyay, Guru Prasad Shastri
PublisherMster Khelari Lal & Sons
Publication Year1933
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy