SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ विवृति- दीपिकालङ्कृता । दीधितिः - तदभाववतोऽपि पृथिव्यादेः संयोगेन तत्सम्बन्धित्वात्, सिद्धिरपि तस्य तथैव, - न तु वृत्तिनियामकसम्बन्धेन, तेनासम्बन्धित्वात् १७३ जगदीशी भावसत्त्वात्कथं तस्य पृथिवीत्वव्यापकत्वमत आह, तदभाववतो-ऽपीति । - गगनादेरभाववतोऽपि । संयोगेनेति । - वृत्त्यनियामकसंयोगेन । – तत्सम्बन्धित्वात् = गगनादिसम्बन्धित्वात् । ] नन्वेवं निरुक्तव्याप्तिज्ञानाद्धटो गगनवानित्यनुमितिः प्रमा स्यादत आह,—सिद्धिरपीति । तथैव = वृत्त्यनियामकसंयोगेनैव, तथा च तादृशसम्बन्धेन गगनानुमितेः प्रमात्वमिष्टमेवेति भावः । * तेनासम्बन्धित्वादिति । येन सम्बन्धेन साध्य-साधनसामानाधिकरण्यं परामर्शे भासते, तेनैव सम्बन्धेन साध्यानुमितेः फलत्वादिति विकृतिः काल इति । गगनादिसम्बन्धित्वादिति । तथा च नृत्यनियामक संयोगरूपसाध्यतावच्छेदकसम्बन्धेन गगनसम्बन्धित्वस्य पृथिव्यादौ सत्त्वान्न गगनाभावः पृथिव्यां प्रतियोगिव्यधिकरण इति भावः । 'घटो गगनवा' नित्यनुमितिर्दीधितिकृतामपि सम्मति प्रदर्शयति- तथा चेति । ननु वृत्त्यनियामक संयोगेन निरुक्तव्यापकसामानाधिकरण्यज्ञानाद्वृत्तिनियामक -- संयोगेनापि 'घटो गगनवा' नित्यनुमितिः स्यादित्यत आह दीधितौ - तेनासम्ब न्धित्वादिति । वृत्तिनियामकसंयोगेन गगनसम्बन्धित्वरूपसाध्य सामानाधिकरण्यविरहादित्यर्थः । ननु वृत्तिनियामकसंयोगेन गगनसम्बन्धित्वविरहेऽपि वृत्यनियामकसंयोगेन गगनसम्बन्धित्वज्ञानाद्वृत्तिनियामकसंयोगेनापि गगनानुमितिः स्यादतो भावमाह - येन सम्बन्धेनेति । भासत इति । तथा च वृत्तिनियामकसंयोगेन गगनसम्बन्धित्वरूप सामानाधिकरण्यस्य परामर्शाविषयतया, - तेन सम्बन्धेन गगनानुमितिर्न सम्भवत्येव, सामानाधिकरण्यघटकसाध्यसम्बन्धस्यैवानुमितिविधेयता--- वच्छेदकसंसर्गतया भानोपगमादिति भावः ।
SR No.032123
Book TitleSiddhant Lakshan
Original Sutra AuthorN/A
AuthorGaneshopadhyay, Guru Prasad Shastri
PublisherMster Khelari Lal & Sons
Publication Year1933
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy