SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ११६ सिद्धान्त - लक्षण - जागदीशी । दीधितिः — - मैवं, - प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोगिनो यदधिकरणं, - जगदीशी [ शि. पृ. ११३. ] “भावत्वात् = समवेतत्वात्" इत्यपि केचित् । प्रतियोगितेति । तथा च ज्ञानाद्यभावस्य तादृशेन समवायसम्बन्धेन घटादौ प्रतियोगिव्यधिकरणत्वान्नाविव्याप्तिः । न च तादृशयत्किञ्चित्सम्बन्धेन प्रतियोगिसामानाधिकरण्याभावोक्तौ वह्निसामान्याभावस्यापि धूमवत्पर्वतावच्छेदेन महानसीयसंयोगेन प्रतियोग्यसमानाधिकरणत्वाद्वह्निमान् धूमादित्यादावव्याप्तिः, - स्वप्रतियोगितावच्छेदकसम्बन्धसामान्येन तथात्वोक्तौ च - 'जातिमान् जातित्वा' दित्यादातिव्याप्तिः, समवायेन जात्यभावस्यैव तादात्म्येन जातिमद्भेदत्वात्, तस्य च स्वप्रतियोगितावच्छेदकतादात्म्य सम्बन्धेन - यज्जातिसम्बन्धि, तद्वृत्तिवे प्रतियोगिव्यधिकरणत्वाभावादिति वाच्यम्; -- विटति: भावत्वादिति । पूर्वोक्तरीत्यैव सामाञ्जस्ये भावत्वस्य समवेतत्वार्थकरणमनथकमिति 'केचिदित्युक्त्याऽस्वरसः सूचितः । ननु प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोग्यधिकरणत्वनिवेशेऽपि कथं निरुक्तस्थलेऽतिव्याप्तिवारणमित्यतो भावमाह - तथा चेति । ज्ञानाद्यभावस्येति । आदिना - विशेषगुणाभावस्य जात्यभावस्य च परिग्रहः । घटादाविति । आदिना - दिक्कालयोः, सामान्यादेश्व परिग्रहः, नातिव्याप्तिरिति । समवायेन ज्ञानादीनामधिकरण आत्मादौ ज्ञानाद्यभावस्यावर्त्तमानतया, हेतुमति घटादौ च वर्त्तमानतया साध्याभावादेर्लक्षणघटकत्वान्नातिव्याप्तिरित्यर्थः । ननु 'प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोग्यधिकरणत्व' विवक्षणेऽपि 'वह्निमान्धूमादित्यन्राव्याप्तिः, संयोगेन धूमाधिकरणे पर्वते वर्त्तमानस्य वह्निसामान्याभावस्य प्रतियोगिनो वह्नेः, -प्रतियोगितावच्छेदकयत्किञ्चिन्महान सीय संयोगेनाधिकरणे महा नसेऽवर्त्तमानत्वात्, - वह्नयभावरूपसाध्याभावस्य प्रतियोगिव्यधिकरणतया लक्षणघटकत्वात् । न च स्वप्रतियोगितावच्छेदकसम्बन्धसामान्येन प्रतियोगितावच्छेदका
SR No.032123
Book TitleSiddhant Lakshan
Original Sutra AuthorN/A
AuthorGaneshopadhyay, Guru Prasad Shastri
PublisherMster Khelari Lal & Sons
Publication Year1933
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy