________________
अष्टावक्र उवाच।
हेयोपादेयता तावत्संसार विटपांकुरः। स्पृहा जीवति यावद्वै निर्विचार दशास्पदम्।।१५२।। प्रवृत्तौ जायते रागो निवृत्तौ द्वेष एव हि। निर्द्वद्वो बालबद्धीमानेवमेव व्यवस्थितः।।१५३ ।। हातुमिच्छति संसारं रागी दुःखजिहासया। वीतरागो हि निर्दुःखस्तस्मिन्नपि न खिद्यते।।१५४।। यस्याभिमानो मोक्षेऽपि देहेऽपि ममता तथा। न च ज्ञानी न वा योगी केवलं दुःखभागसौ।।१५५।। हरो यापदेष्टा ते हरिः कमलजोऽपि वा। तथापि न तव स्वास्थ्यं सर्वविस्मरणादृते।।१५६।।