________________
अष्टावक्र उवाच ।
एको द्रष्टाऽसि सर्वस्य मुक्तप्रायोऽसि सर्वदा । अयमेव हि ते बंधो द्रष्टारं पश्यसीतरम् ।। ७ ।। अहं कतेत्यहंमानमहाकृष्णहि दंशितः । नाहं कर्त्तेति विश्वासामृतं पीत्वा सुखी भव ॥ ८ ॥ एको विशुद्धबोधोऽहमिति निश्चवह्निना । प्रज्वाल्याज्ञानगहनं वीतशोकः सुखी भव । । ९॥ यत्र विश्वमिदं भाति कल्पितं रज्जुसर्पवत् । आनंदपरमानंदः स बोधस्त्वं सुखं चर ।। १० ।।
मुक्ताभिमानी मुक्तो हि बद्धो बद्धाभिमान्यपि । किंवदंतीह सत्येयं या मतिः स गतिर्भवेत ।। ११ ।। आत्मा साक्षी विभुः पूर्ण एको मुक्तश्चिद् क्रियः । असंगो निस्पृहः शांतो भ्रमात संसारवानिव । । १२ ।। कूटस्थं बोधमद्वैतमात्मानं परिभावय । आभासोऽहं भ्रमं मुक्त्वा भावं बाह्यमथांतरम् ।। १३ ।।