SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ [सू० १] एकस्थानकम् । तथा इमीसे णमित्यादि सूत्राष्टादशकमाश्रयिणां स्थित्यादिधर्माणां प्रतिपादनपरं सुबोधम् । नवरं जंबुद्दीवे दीवे इह सूत्रे आयामविक्खंभेणं ति क्वचित् पाठो दृश्यते, क्वचित्तु चक्कवालविक्खंभेणं ति, तत्र प्रथमः सम्भवति, अन्यत्रापि तथा श्रवणात्, सुगमश्च। द्वितीयस्त्वेवं व्याख्येयः- चक्रवालविष्कम्भेण वृत्तव्यासेन, इदं च प्रमाणयोजनमवसेयम्, यदाह 5 आयंगुलेण वत्थु उस्सेहपमाणओ मिणसु देहं । नग-पुढवि-विमाणाइं मिणसु पमाणंगुलेणं तु ।। [बृहत्सं० गा० ३४९] तथा पालकं यानविमानं सौधर्मेन्द्रसम्बन्ध्याभियोगिकपालकाभिधानदेवकृतं वैक्रियम्, यानं गमनम्, तदर्थं विमानम्, यायते वाऽनेने ति यानं तदेव विमानं यानविमानं पारियानिकमिति यदुच्यते । 10 अत्थीत्यादि, अस्ति विद्यते एकेषां केषांञ्चिन्नैरयिकाणामेकं पल्योपमं स्थितिरिति कृत्वा प्रज्ञप्ता प्रवेदिता मया अन्यैश्च जिनैः, सा च चतुर्थे प्रस्तटे मध्यमाऽवसेयेति, एवमेकं सागरोपमं त्रयोदशे प्रस्तटे उत्कृष्टा स्थितिरिति । असुरिंदवजियाणं ति चमर-बलिवर्जितानां भोमेजाणं ति भवनवासिनाम्, भूमौ पृथिव्यां रत्नप्रभाभिधानायां भवत्वात्तेषामिति, तेषां चैकं पल्योपमं मध्यमा स्थितिर्यत 15 उत्कृष्टा देशोने द्वे पल्योपमे सा, आह च दाहिण दिवट्ठ पलियं दो देसूणुत्तरिल्लाणं ।। [बृहत्सं० गा० ५] ति । __ असंखेजेत्यादि, असङ्ख्येयानि वर्षाण्यायुर्येषां ते तथा, ते च ते सज्ञिनश्च समनस्काः, ते च ते पञ्चेन्द्रियतिर्यग्योनिकाश्चेति असङ्ख्येयवर्षायुःसज्ञि१. "आत्मागलेन मिमीष्व वास्तु । तच्च त्रिविधम्, तद्यथा-खातमुच्छ्रितमुभयं च । तत्र खात कूप-तडाग-भूमिगृहादि. उच्छितं धवलगृहादि, उभयं भूमिगृहयुक्तधवलगृहादि । उत्सेधप्रमाणेनागुलेन मिमीष्व देहं सुरादीनां शरीरम् । प्रमाणाङ्गलेन पुनर्मिमीष्व नग-पृथिवी-विमानानि। तत्र नगाः पर्वता मेर्वादयः, पृथिव्यो घर्मादयः, विमानानि सौधर्मावतंसकार्दानि । विमानग्रहणं भवन-नरकावासाद्युपलक्षणम्, तेन तान्यपि प्रमाणाङ्गुलेन मिमीष्व" । इति बृहत्संग्रहण्या मलयगिरिसूरिविरचितायां टीकायाम्॥ २. परि' खं० ।। ३. तदुच्यते जे२ हे२ ॥ ४. "दाहिणेत्यादि. दाक्षिणात्यानां नागकुमाराद्यधिपतीनां धरणप्रमुखानां नवानामिन्द्राणामुत्कृष्टमायुव्यर्धं पल्योपमं सार्धं पल्योपममित्यर्थः । उत्तरिल्लाणं ति औत्तराहानामुत्तरदिगभाविनां नागकुमारादीन्द्राणां भूतानन्दप्रभृतीनां नवानां देशोने किञ्चिदने द्वे पल्योपमे” इति बहत्संग्रहणीटीकायाम् ॥
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy