________________
उत्तराध्ययन
375 विशेषेण कटुविपाकत्वलक्षणेन भवहेतुत्वलक्षणेन च ज्ञात्वा एतेषां कर्मणामनुपात्तानां संवरे निरोधे, च समुचये एवोऽवधारणे भिन्नक्रमः सोऽग्रतो योक्ष्यते, क्षपणे च पूर्वोपात्तानां निर्जरणे 'जएत्ति' यततैव यत्नं कुर्यादेव बुधो धीमानिति सूत्रार्थः ॥ २५॥ इति ब्रवीमीति प्राग्वत् ॥३३॥
RECORIALOMADARSOMERCORATOR AAROMADARPAN इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय
श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ त्रयस्त्रिंशमध्ययनं सम्पूर्णम् ॥ ३३॥ S லேலைலைலலைல
॥ अथ चतुस्त्रिंशमध्ययनम् ॥ ॥ ॐ ॥ उक्तं त्रयस्त्रिंशमध्ययनमथ चतुस्त्रिंशं लेश्याध्ययनमारभ्यते, अस्स चायं सम्बन्धोऽनन्तराध्ययने कर्मप्रकतय उक्तास्तस्थितिश्च लेश्यावशात् स्यादितीह ता उच्यन्ते, इति सम्बन्धस्यास्येदमादिसूत्रम्मूलम्-लेसज्झयणं पवक्खामि, आणुपुवि जहकमं । छहंपि कम्मलेसाणं, अणुभावे सुणेह मे ॥१॥
व्याख्या-लेश्यावाचकमध्ययनं लेश्याध्ययनं प्रवक्ष्यामि, आनुपूर्वेत्यादि प्राग्वत् । तत्र षण्णामपि कर्मलेश्यानां कर्मस्थितिविधातृतत्तद्विशिष्टपुद्गलरूपाणामनुभावान् रसविशेषान् शृणुत मे कथयत इति शेषः ॥१॥ एतदनुमा. वाश्च नामादिप्ररूपणे कथिता एय भवन्तीति तत्प्ररूपणाय द्वारसूत्रमाहमूलम् –णामाइंवण्णरसगंधफासपरिणामलक्खणं ठाणं। ठिइं गइंच आउं, लेसाणं तु सुणेह मे ॥२॥
व्याख्या-नामानि वर्ण-रस-गन्ध-स्पर्श-परिणाम-लक्षणमिति पण्णां समाहारः, परिणामश्चात्र जघन्यादिः, लक्षणं पञ्चाश्रवसेवादि, स्थानमुत्कर्षापकर्परूपं, स्थितिमवस्थानकालं, गतिं च नरकादिकां यतो याऽवाप्यते, आयु.
र्जीवितं यावति तत्रायशिष्यमाणे आगामिभयलेश्यापरिणामस्तदिह गृह्यते, लेश्यानां तु शृणुत मे वदत इति सूत्रार्थः ॥ २ ॥ यथोद्देशं निर्देश इत्यादौ नामान्याह
मूलम्-किण्हा १ नीला २ य काऊ ३ य, तेऊ ४ पम्हा ५ तहेव य ।
सुकलेसा य ६ छट्ठा उ, नामाइं तु जहक्कम ॥३॥ व्याख्या-स्पष्टा ॥३॥ वर्णानाहमूलम्-जीमूतनिद्धसंकासा, गवलरिदृगसन्निभा। खंजंजणनयणनिभा, किण्हलेसा उ वण्णओ॥४॥
व्याख्या-जीमूतनिद्धसंकासत्ति' प्राकृतत्वात् स्निग्धजीमूतसंकाशा, गवलं महिपशृङ्ग-रिष्टकः काकः-फलविशेपो या तत्सन्निभा, 'खंजत्ति' खञ्जनं स्नेहाभ्यक्तशकटाक्षघर्पणोद्भवं-अञ्जनं कजलं-नयनमित्युपचारान्नयनमध्यवर्तिनी कृष्णतारा-तन्निभा, कृष्णलेश्या तु वर्णतो वर्णमाश्रित्य परमकृष्णेत्यर्थः ॥४॥ मूलम्-नीलासोगसंकासा, चासपिच्छसमप्पभा। वेरुलियनिद्धसंकासा, नीललेसा उ वण्णओ॥५॥
व्याख्या-नीलाशोकसंकाशा रक्ताशोकापोहार्थमिह नीलग्रहणं, 'वेरुलियनिद्धसंकासत्ति' स्निग्धवैडूर्यसङ्काशा अतिनीलेत्यर्थः ॥ ५॥ मूलम्-अयसीपुप्फसंकासा, कोइलच्छदसन्निभा । पारेवयगीवनिभा, काउलेसा उ वण्णओ ॥६॥
व्याख्या-अतसी धान्यविशेषस्तत्पुष्पसङ्काशा, कोकिलच्छदस्तैलकण्टकस्तत्सन्निभा, पाठान्तरे कोकिलछविसनिभा, पारापतग्रीवानिभा, कापोतलेश्या तु वर्णतः, किञ्चित्कृष्णा किञ्चिद्रक्तेति भावः ॥ ६॥