________________
294 उत्तराध्ययन स खेचरोऽनुचरव-वर्णबाहुमुपाचरत् ॥ १३८ ॥ खर्णबाहुमहाबाहु-स्तत्रस्थः प्राज्यपुण्यतः ॥ श्रेणिद्वितयसाम्रा. ज्य-माससाद दुरासदम् ॥ १३९ ॥ विद्याधरकनीस्तत्र, भूयसीरुद्वाह च ॥ पमाद्याभिः समं ताभिः, खपुरेऽगाच सोऽन्यदा ॥ १४० ॥जातचक्रादिरत्नश्च, षट्खण्डं क्षितिमण्डलम् ॥ सुवर्णवाहुभूपालः, साधयित्वान्वशाचिरम् ॥१४१॥ प्रासादोपरि सोऽन्येद्युः, क्रीडन्नन्तःपुरीवृतः ॥ सविस्मयोऽम्बरेऽपश्य-द्रमागमपरान्सुरान् ॥ १४२ ॥ ततो ज्ञात्वा जगन्नाथ-तीर्थनाथसमागमम् ॥ गत्वा नत्वा जिनं मोहा-पहां शुश्राव देशनाम् ॥ १४३॥ सोऽथ चक्री ययौ धाम, नत्वा तं धर्मचक्रिणम् ॥ प्रबोध्य भव्यान्सार्वोऽपि, विजहार ततोऽन्यतः ॥ १४४ ॥ स्मरन् जिनान्तिके दृष्टान्सुरांश्चक्री स चान्यदा ॥ दृष्टा मयेरशाः पूर्व-मपि कापीति भावयन् ॥ १४५ ॥ जातिस्मरणमासाद्य, ददर्श प्राग्भवान्निजान् ॥ वैराग्यं चाभयद्वीजं, महानन्दमहीरहः ॥ १४६ ॥ [युग्मम् ] दीक्षा जिघृक्षुः क्षमापोऽय, न्यधाद्राज्यं निजेऽङ्गजे ॥ जगन्नाथजिनस्तत्र, पुनरप्यागमत्तदा ॥ १४७ ॥ सुवर्णवाहुः प्राबाजी-त्ततस्तस्याहतोऽन्तिके ॥ स च क्रमेण गीतार्थ-स्तपस्तेपे सुदुस्तपम् ॥ १४८ ॥ जिनसेवादिभिः स्थानः, तीर्थकृत्कर्म चार्जयत् ॥ विजहार च भूपीठे-ऽप्रतिबद्धः समीरवत् ॥ १४९ ॥ स चान्यदा क्षीरवणा-टव्यां क्षीरमहागिरौ ॥ भानोरभिमुखस्तस्थौ, कायोत्सर्गेण शुद्धधीः ॥ १५० ॥ कुरङ्गकोऽपि नरको-वृत्तस्तत्रैव भूधरे ॥ सिंहोऽजनिष्ट दैवाच्च, तत्रागच्छत्परिभ्रमन् ॥१५१॥ मुनीन्द्र वीक्ष्य तं क्रोधा-ध्मातः प्राग्भववरतः ॥ दधाव पावकाकार-स्फाराक्षो राक्षसोपमः ॥ १५२ ॥ तमापतन्तं वीक्ष्याशु, व्यधादनशनं शमी ॥ उत्फालो हरिरप्युचैः, प्राहरत्तस्य भूघने ॥ १५३ ॥ ततो मृत्वा मुनिः खर्गे, दशमे त्रिदशोऽभवत् ॥ महाप्रभविमानान्त-विशत्यर्णवजीवितः ॥ १५४ ॥ सिंहः सोऽपि मृतस्तूर्य-नरके नारकोऽभवत् । दशार्णवायुर्विविध-वेदनावेदनाकुलः ॥ १५५ ॥ उदृत्तोऽथ ततो भ्राम्य-स्तिर्यग्योनिषु भूरिशः ॥ जीवः सिंहस्य स क्वापि, ग्रामे जज्ञे द्विजाङ्गजः ॥१५६॥ जातस्य तस्य ताताधा, निजाः सर्वे विपेदिरे ॥ वदन्तस्तं कठं लोकाः, कृपयाऽजीवयंस्ततः ॥ १५७ ॥ बाल्यमुलंघ्य तारुण्यं, प्राप्तः सोऽत्यन्तदुर्गतः ॥ निंद्यमानो जनैः प्राप, कृच्छ्राद्भोजनम
॥ त्यागभोगकृतार्थार्थान् , वीक्ष्य सोऽन्येधुरीश्वरान् ॥ इति दध्यौ तपः प्राज्यं, तप्तमेभिः पुरा खलु। ॥ १५९ ॥ बीजं विना कृपिरिव, न हि श्रीः स्यात्तपो विना ॥ तपस्यहं यतिष्ये त-द्वाणिज्य इव वाणिजः॥१६॥ विमृश्येति कठो जात-संवेगस्तापसोऽभवत् ॥ पश्चाइयादि तपः कष्टं, कुर्वन् कन्दादिभोजनः ॥ १६१ ॥
इतवात्रैव भरते-ऽभवद्वाराणसी पुरी ॥ नित्यसख्येव जाह्नव्या, सेविता सन्निधिस्थया ॥ १६२ ॥ रेजेऽभिराममु. द्यानं, परितो यां पुरी परम् ॥ अलकाविभ्रमाचैत्र-रथं किमु समागतम् ! ॥ १६३ ॥ यस्यां सालो विशालोर-मा. णिक्यकपिशीर्षकः ॥ दिक्श्रीणां नित्यमादर्शा-निरुपायानदर्शयत् ॥ १६४ ॥ यत्र चैत्येषु सौवर्णाः, कलसाः कल. सानुपु ॥ पूजयन्ति करैर्भानु-मभ्यागतमिवागतम् ॥१६५॥ यत्र रम्याणि हाणि, रेजिरे धनशालिनाम् ॥ पुण्या भ्युदयलभ्यानि, विमानानीव नाकिनाम् ॥ १६६ ॥ खर्गिणा भोजनायाऽपि, सुधा मिलति याचिता ॥ चित्रं यत्र सुधालिसाः, प्रायः सर्वगृहा अपि ! ॥ १६७ ॥ अगण्यपण्यसम्भार-सङ्कटापि विसङ्कटा ॥ कुत्रिकापणराजीव, रेजे यत्रापणावली ॥ १६८ ॥ प्रत्यक्षां वीक्ष्य यलक्ष्मी, दक्षा विश्वातिशायिनीम् ॥ अशङ्कन्ताश्माम्बुशेषी,रोहणाद्रिपयो। निधी ॥ १६९ ॥ अश्वसेनाभिधो विष्वकू-सेनसन्निमविक्रमः ॥ तत्राभूत्पार्थिवः पृथ्वी-वास्तव्य इव वासवः १५ गुणैरवामा वामाह्वा, शीलादिगुणशालिनी ॥ तस्यासीद्वल्लभा राज्ञः, खप्राणेभ्योऽपि वलमा ॥ १७१ ॥ सुवर्णबाहु. जीवोऽथ, च्युत्वा प्राणतकल्पतः ॥ कुक्षाववातरद्वामा-देव्या ज्ञानत्रयान्वितः ॥ १७२ ॥ तदा सा सुमुखी कुम्भिप्रमुखान् विशतो मुखे ॥ चतुर्दश महाखमान्, ददर्श शयिता सुखम् ॥ १७३ ॥ शक्रो नृशक्रः तज्ज्ञाश्च, तेषामर्थ. ममुं जगुः ॥ खप्नैरेभिः सुतो भावी, तव देवि ! जगत्पतिः ॥१७४ ॥ ततः प्रमुदिता वामा-देवी गर्भ दधौ सुखम्।। काले च सुषुवे पुत्रं, नीलधुतिमहिध्वजम् ॥ १७५ ॥ विज्ञाय विष्टरास्थैर्या-त्प्रभोर्जन्मागतास्तदा ॥ षट्पञ्चाशहिकमार्यः, सूतिकर्माणि चक्रिरे ॥ १७६ ॥ ज्ञात्वा जन्मावधेस्तस्य, शकाद्या वासवा अपि ॥ जन्माभिषेककल्याणं, सुमेरौ विधिवद्यधुः ॥ १७७ ॥ पीतामृत इवानन्दा-दश्वसेननृपोऽपि हि ॥ कारामोक्षादिकं चक्रे, सूनोर्जन्ममहोत्सवम् ॥ १७८ ॥ गर्भस्थेऽस्मिन्कृष्णरात्रा-बपि माता खपार्श्वतः ॥ ददर्श सर्प सर्पन्तं, दुतं भर्तुरुवाच च ॥ १७९॥ प्रभावोऽयं हि गर्भस्ये-त्यूचे भूपोऽपि तां तदा ॥ तच स्मृत्वा नृपः सूनोः, पार्षे इत्यभिधां व्यधात् ॥ १८० ॥ लाल्यमानोऽथ धात्रीमि-रादिष्टाभिर्विडोजसा ॥ शिशुभूतैः समं देवैः, क्रीडन् क्रीडागृहं श्रियः ॥ १८१॥ सुधां