________________
293
उत्तराध्ययन
ग्रैवेयकात्ततः ॥ चतुर्द्दशमहाखन - सूचितोऽभूत्सुतस्तयोः ॥ ९५ ॥ सुवर्णवाहुरित्याहां, व्यधात्तस्योत्सवैर्नृपः ॥ सोऽथ क्रमेण ववृधे, जगन्नेत्रसुधाअनम् ॥ ९६ ॥ धात्रिभिरिव धात्री - सत्सौभाग्यवशीकृतैः ॥ अङ्कादङ्कं नीयमानः, स व्यतीयाय शैशवम् ॥ ९७ || सुगमाः प्राग्भवाभ्यासा-दादाय सकलाः कलाः ॥ यौवनं प्राप ललना-नेत्रालिनलिनीवनम् ॥ ९८ ॥ राज्ये निधाय तं राजा, प्रवत्राजान्यदा सुधीः ॥ सदयं स्वर्णबाहुश्चा - मुक्त बालामिव क्षमाम् ॥ ९९ ॥ सोऽथ वाहयितुं वाहान्, वाहकेलीं गतोऽन्यदा ॥ अनायि हत्वाऽरण्यानीं, वक्रशिक्षितवाजिना ॥ १००॥ l तत्र चैकं सरो वीक्ष्य, तृषितोऽस्थात्स्वयं हयः ॥ तत्र तं स्त्रपयित्वाऽथ, पार्थिवोऽपाययत्पयः ॥ १०१ ॥ स्वयं स्नात्वा पयः पीत्वा तीरे विश्रम्य च क्षणम् ॥ ततः पुरो व्रजन् राजा - ऽपश्यदेकं तपोवनम् ॥ १०२ ॥ तत्र प्रविशतो राज्ञो ऽस्फुरद्दक्षिणमीक्षणम् ॥ श्रेयः श्रेयोऽथ मे भाषी - यन्तर्भूपोऽप्यचिन्तयत् ॥ १०३ ॥ पुरो प्रजंश्च सोऽपश्य-तत्रैका मुनिकन्यकाम् ॥ सिञ्चन्तीं शाखिनः सख्या -ऽनुगतां गजजिद्गतिम् ॥ १०४ ॥ द्रुमान्तरस्थो निध्यायं - स्तामध्यायत्ततो नृपः ॥ सर्वायासादिमां नूनं, त्रिज्ञानी विदधे विधिः ॥ १०५ ॥ विकाराणामुपाध्यायो, न ध्यायोऽप्सरसामपि ॥ काऽयं रूपगुणोऽमुष्याः, केदं कर्मेतरोचितम् ! ॥ १०६ ॥ नृदेवे चिन्तयत्येवं तच्छ्वासामोदमोहितः ॥ आस्ये तस्याः पपाताज-भ्रमेण भ्रमरो भ्रमन् ! ॥ १०७ ॥ भृङ्गान्मां रक्ष रक्षास्मा-दित्यूचे सा सखीं तदा ॥ विना सुवर्णबाहुं त्वां कोऽन्यः पातीति साप्यवक् ॥ १०८ ॥ सुवर्णवाहौ पाति क्ष्मा - मुपद्रवति कोऽत्र वः ? ॥ इत्युञ्चरुञ्चरन्प्रादु - रासीद्राजा तयोस्तदा ॥ १०९ ॥ तं चाकस्माद्वीक्ष्य जात-क्षोभे ते तस्थतुः क्षणम् ॥ धृतधैर्याथ तं तस्याः, सख्याऽऽचख्याविदं सुधीः ॥ ११० ॥ वज्रबाहुसुते वज्रि - जैत्रतेजसि पार्थिवे ॥ नेश्वरोऽपीश्वरः कर्त्तु, तापसानामुपद्रवम् ॥ १११ ॥ मुग्धासौ तु कजभ्रान्त्या, षट्पदादशतो मुखम् ॥ वित्रस्ता रक्ष रक्षेति, व्याजहार सखी मम ! ॥ ११२ ॥ त्वं पुनः कामजिद्रूपः कोऽसीति ब्रूहि सन्मते ! ॥ तयेत्युक्तोऽवदद्भूपः, स्वयं स्वं वक्तुमक्षमः ॥ ११३ ॥ सुवर्णबाहुभूजाने - मं जानीहि वशंवदम् ॥ आश्रमोपद्रवं हन्तु - मिह त्वागां तदाज्ञया ॥ ११४ ॥ किञ्च पृच्छाम्यहं भद्रे !, कुतोऽसौ कमलेक्षणा ॥ रूपस्याननुरूपेण, क्लिश्यतेऽनेन कर्मणा ? ॥ ११५ ॥ साऽवादीत्खेचरेन्द्रस्य, सुता रत्नपुरप्रभोः ॥ रत्नावलीकुक्षिरत्न-मियं पद्माभिधा कनी ॥ ११६ ॥ तातो विपेदे जाताया-ममुष्यां तत्सुतास्ततः ॥ मिथोऽयुध्यन्त राज्यार्थ, ततोऽभूद्विवरो महान् ! ॥ ११७ ॥ रत्नावली विमा वाला-मादायागादिहाश्रमे || निजभ्रातुः कुलपते-गलिवाह्नस्य मन्दिरम् ॥ ११८ ॥ ववृधेऽसौ ततोऽत्रैव, लाल्यमाना तपोधनैः ॥ कामकारस्कराङ्कुर - जीवनं चाए यौवनम् ॥ ११९ ॥ अत एवार्षिकन्यानां कर्मादः क्रियतेऽनया ॥ artaः किल संवासः, स्यादभ्यासोऽपि तादृशः ॥ १२० ॥ साधुरेकोऽन्यदा ज्ञाना - लोकभानुरिहाययौ ॥ पद्मायाः कः पतिर्भावी-त्यपृच्छत्तं च गालवः ॥ १२१ ॥ ऊचे साधुरिहायात - चक्रभृद्वाजिना हृतः ॥ सुवर्णबाहुर्भाव्यस्याः, त्रिवोढा वज्रबाहुजः ॥ १२२ ॥ ततो दध्यौ मुदा क्ष्मापो, हयेनोपकृतं मम ॥ हत्वाहं यदिहानिन्ये, सङ्गमोऽस्याः नचेत्क्क मे १ ॥ १२३ ॥ इत्यूचे च नृपो ब्रूहि, भद्रे कुलपतिः क्व सः १ ॥ तं द्रष्टुमहमुत्कोऽस्मि, रथाङ्ग इव भास्क रम् ॥ १२४ ॥ सा प्रोचे सोऽद्य चलित-मनुयातोऽस्ति तं मुनिम् ॥ किंचिद्गत्वा तं च नत्वा, समागन्ताऽधुनाश्रमम् ॥ १२५ ॥ तदा तत्राययौ राज्ञः सैन्यमश्वपदानुगम् ॥ सुवर्णबाहुरेवाय - मिति ते दध्यतुस्ततः ॥ १२६ ॥ कुलपत्यागमकालं, शङ्कमानाऽथ तत्सखी ॥ पद्मां सद्माऽनयद्भूप-दर्शनासक्तदर्शनाम् ॥ १२७ ॥ वार्त्ता सुवर्णवाहोस्तां, गालवस्यैयुषो गृहम् ॥ रत्नावल्याश्च सानन्दा - न्नन्दाख्या तत्सखी जगौ ॥ १२८ ॥ ततो रत्नावली पद्मा - नन्दाभिः सह गालवः ॥ ययावुपनृपं हृष्टः सोऽपि तं वह्नमानयत् ॥ १२९ ॥ अथोचे गालवो राजन्!, पद्मां मे जामिजामिमाम् ॥ पाणी गृहाण प्रोक्ता हि भार्याऽसौ ज्ञानिना तब ॥ १३० ॥ तच्छ्रुत्वा दृष्टसुखन - इवोच्चैर्मुदितो नृपः ॥ गान्धर्वेण विवाहेन, तामुपायंस्त रागिणीम् ॥ १३१ ॥ वैमात्रेयोऽथ पद्माया - स्तदा पद्मोत्तराह्वयः ॥ विमानैश्छादयन् व्योम, तत्रागात्खेचरेश्वरः ॥ १३२ ॥ रत्नावल्या ज्ञापितस्तं नृपं नत्वैवमब्रवीत् ॥ देवायातोऽस्मि सेवायै, ज्ञात्वोदन्तममुं तब ॥ १३३ ॥ प्रभो ! पुनीहि त्वं स्वीय- पादपद्मसमागमात् ॥ वैताढ्य पर्वते रल - पुरं नाम पुरं मम ॥ १३४ ॥ तत्प्रपद्यापृच्छ्य रत्ना-वलीं कुलपतिं तथा ॥ भूमान् विमानमारोह -तस्याशु सपरिच्छदः ॥ १३५ ॥ नत्वा मातुलमम्बां च, सखेहं तदनुज्ञया । पद्माप्यश्रुजलक्लिन्न- भूतला पतिमन्वगात् ॥ १३६ ॥ ततः पद्मोत्तरः पद्मा-संयुतं तं धराधवम् ॥ सद्यो वैताढ्य शिखरि - शेखरे खपुरेऽनयत् ॥ १३७ ॥ दत्वा च रतप्रासादं दिव्यं स्नानाशनादिना ॥