SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन 211 उन्मादं या कामग्रहात्मकं प्राप्नुयात् , योषिद्विषयाभिलाषविशेषात्मनो विप्लवसम्भवात् । दीर्घकालिकं वा दीर्घकालमावि रोगश्च दाहज्वरादि: आतङ्कश्चाशुधाती शूलादिः रोगातंकं भवेत् , सम्भवति हि रमणीयरमणीरमणाभिलाषातिरेकादरोचकित्वं, ततश्च दाहज्वरादीति । केयलिप्रज्ञसाद्वा धर्मात् श्रुतचारित्ररूपात्समस्ताश्येत् , कस्यचित् क्लिष्टकर्मोंदयाद्धर्मभ्रंशस्यापि सम्भवात् , यत एवं तस्मादित्यादि निगमनवाक्यं सुगममिति सूत्रार्थः ॥ ४ ॥ १॥ उक्तं समा. धिस्थानं प्रथम, द्वितीयमाहमूलम् णो इत्थीणं कहं कहित्ता हवइ से निग्गंथे, तं कहमितिचे ? आयरियाह-निग्गंथस्स खलु इत्थीणं कहं कहेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिज्जा, भेअं वा लभेजा, उम्मायं वा पाउणिज्जा, दीहकालिअं वा रोगायक हविजा, केवलिपण्णत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु निग्गंथे नो इत्थीणं कहं कहिज्जा ॥५॥ व्याख्या-नो नैव स्त्रीणां एकाकिनीनामिति गम्यते, कथां वाक्यप्रबन्धरूपां, यद्वा स्त्रीणां सम्बन्धिनी कथा रूपनेपथ्यचातुर्यादिविपया तां, कथयिता भवति यः स निम्रन्थो नत्वन्य इति भावः । तत्कथमित्यादि प्राग्वदिति सूत्रार्थः ॥२॥५॥ तृतीयमाहमूलम् –णो इत्थीहिं सद्धिं सन्निसिजागए विहरित्ता हवइ से निग्गंथे, तं कहमितिचे ? आयरिआह-निग्गंथस्स खलु इत्थीहिं सद्धिं सन्निसिजागयस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिजा, भेअं वा लभेजा, उम्मायं वा पाउणिजा, दीहकालियं वा रोगायक हविजा, केवलिपण्णत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे इत्थीहिं सद्धिं सन्निसिजागए विहरिजा ॥६॥ व्याख्या-नो स्त्रीभिः साध संनिपद्या आसनं तद्वतः सन् विहर्ता अवस्थाता भवति, कोऽर्थः ? स्त्रीभिः सममेकासने नोपविशेत , उत्थिताखपि तासु मुहूर्त यावत्तत्र नोपवेष्टव्यमिति सम्प्रदायो, य एवंविधः स निम्रन्थः, शेषं प्राग्वदिति सूत्रार्थः ॥३॥ ६ ॥ चतुर्थमाहमूलम् –णो इत्थीणं इंदिआई मणोहराई मणोरमाई आलोएत्ता निज्झाएत्ता भवति से निग्गंथे, तं कहमितिचे ? आयरिआह-निग्गंथस्स खलु इत्थीणं इंदिआई मणोहराई मणोरमाइं आलोएमाणस्स निज्झाएमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा जाव केवलिपण्णताओ धा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे इत्थीणं इंदिआई जाव-निज्झाएजा ॥७॥ - व्याख्या-नो स्त्रीणामिन्द्रियाणि नयनादीनि, मनश्चित्तं हरन्ति दृष्टमात्राणि आक्षिपन्तीति मनोहराणि, मनो रमयन्ति दर्शनानन्तरमनुचिन्त्यमानान्याहादयन्तीति मनोरमाणि, आलोकिता ईपट्टष्टा, नियाता गाढं निरीक्षिता, यहा निध्याता दर्शनानन्तरमहो ! नेत्रयोः सलवणत्वं, नाशायाः सरलत्वमित्यादि चिन्तयिता भवति यः स निर्गन्था, शेष प्राग्वदिति सूत्रांर्थः ॥४॥७॥ पञ्चममाहमूलम्-नो निग्गंथे इत्थीणं कुडंतरंसि वा, दूसंतरंसि वा, भित्तिंतरंसि वा, कुइअसई वा, रुइअसई पा, गीअसई वा, हसिअसई वा, थणिअसई वा, कंदिअसई वा, विलविअसई वा, सुणिता हवा से निग्गंथे । तं कहमितिचे ? आयरिआह-निग्गंथस्स खलु इत्थीणं कुडंतरंसि वा जाव-विलविअ. सई वा सुणमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जाव-केवलिपण्णताओ वा धम्माओ भसिज्जा, तम्हा खल निग्गंथे नो इत्थीणं कुथुतरंसि वा जाव-सुणमाणो विहरेजा ॥cn ध्याख्या-नो निम्रन्थः स्त्रीणां कुख्यं लेष्टुकादिरचितं तेनान्तरं व्यवधानं कुख्यान्तरं तस्मिन्या, दूष्यं वस्त्रं यवनिकादिरूपं तदन्तरे वा, भित्तिः पोष्टकादिरचिता तदन्तरे वा, स्थित्वेति शेषः। कूजितशब्दं वा रतसमये कोकिलादिपक्षिमाषारूपं, रुदितशब्द वा रतिकलहादिषु, गीतशब्दं वा पञ्चमादिरूपं, हसितशब्दं वा कहकहादिक, सनिल
SR No.032088
Book TitleUttaradhyayan Sutra
Original Sutra AuthorN/A
AuthorBhavvijay Gani
PublisherDivya Darshan Trust
Publication Year1983
Total Pages424
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy