________________
६२-६३]
शतकनामा पञ्चमः कर्मग्रन्थः। शुभलक्षणनां दशप्रकृतीनां यथासम्भवं पर्याप्तैकेन्द्रिया-ऽपर्याप्तत्रसयोग्यपञ्चविंशतिबन्धेनैव सह बध्यमानानामुत्कृष्टः प्रदेशबन्धो लभ्यते, नोत्तरैः षड्विंशत्यादिबन्धैः, भागबाहुल्यादेव । नाप्यधस्तनेन त्रयोविंशतिबन्धेन, तत्रैतासां बन्धाभावादेव । तौ च त्रयोविंशति-पञ्चविंशतिबन्धौ सम्यग्दृष्टेनं भवतः, देव-पर्याप्तमनुष्यप्रायोग्यबन्धकत्वात् तस्येति, अत एतासामपि पञ्चविंशतिप्रकृतीनां यथोक्तप्रकारेण त्रयोविंशत्या पञ्चविंशत्या च सह यध्यमानानां सप्तविधबन्धक उत्कृष्टयोगो मिथ्यादृष्टिरेवोत्कृष्ट प्रदेशबन्धं करोतीति ।। ६२ ॥
निरूपितमुत्तरप्रकृतीनामुत्कृष्टप्रदेशवन्धस्वामित्वम् । अधुना तासामेव जघन्यप्रदेशबन्धस्वामित्वमभिधित्सुराह--
सुमुणी दुन्नि असंत्री, नरयतिग सुराउ सुरविउव्विदुगं ।
सम्मो जिणं जहन्नं, सुहुमनिगोयाइखणि सेसा ॥ ९३ ।। 'सुमुनिः' प्रमादरहितत्वेन प्रधानसाधु:-अप्रमत्तयतिः "दुनि" ति द्वे प्रकृती आहारकशरीरा-ऽऽहारकाङ्गोपाङ्गलक्षणे जघन्यप्रदेशे बध्नाति । अयमर्थः-परावर्तमानयोगो घोलनयोगीत्यर्थः, अष्टविधबन्धकः स्वप्रायोग्यसर्वजघन्यवीर्ये व्यवस्थितो नाम्नो देवगतिः देवानुपूर्वी पञ्चेन्द्रियजातिः वैक्रियशरीरं वैक्रियाङ्गोपाङ्गं समचतुरस्रसंस्थानम् उच्छ्वासनाम परा'घातनाम प्रशस्तविहायोगतिः त्रसनाम बादरनाम पर्याप्तनाम प्रत्येकनाम स्थिरनाम शुभनाम यश-कीर्तिनाम सुभगनाम सुस्वरनाम आदेयनाम वर्णचतुष्कं तैजस-कार्मणे अगुरुलघु उपघातं निर्माणं तीर्थकरनाम आहारकशरीरम् आहारकाङ्गोपाङ्गमित्येवमेकत्रिंशतं प्रकृतीबंध्नन् अप्रमत्तयतिराहारकशरीरा-ऽऽहारकाङ्गोपाङ्गलक्षणे द्वे प्रकृती जघन्यप्रदेशे बध्नाति । त्रिंशद्धन्धेऽप्येते बध्येते परं तत्राल्पा भागा इत्येकत्रिंशद्वन्धग्रहणम् । एतच्च प्रकृतिद्वयमन्यत्र न बध्यत इत्यप्रमत्तयतिग्रहणम् । तथा असंज्ञी सामान्योक्तावपि घोलमानयोगः परावर्तमानयोग इत्यर्थः, नरकत्रिकंनरकगति-नरकानुपूर्वी-नरकायुलेक्षणं सुरायुः इत्येताश्चतस्रः प्रकृतीजेधन्यप्रदेशबन्धाः करोति । तथाहि--पृथिवी-अप-तेजो-वायु-वनस्पतिकायिक-द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिया देव नारकेषत्पत्यभावादेवैताश्चतस्रः प्रकृतीन बध्नन्तीति नेहाधिक्रियन्ते । असंड्यप्यपर्याप्तकस्तथाविधसंक्लेशविशुद्धयभावाद् नैता बध्नाति, अतः सूत्र सामान्योक्तावपि "व्याख्यानतो विशेषप्रतिपत्तिः" इति न्यायात् पर्याप्तकोऽसौ द्रष्टव्यः । सोऽपि यद्यकस्मिन्नेव वाग्योगे काययोगे वा चिरमवतिष्ठमानो गृह्यत तदा तीव्रचेष्टो भवेत् । योगात्तु योगान्तरं पुनः सङ्क्रामतः स्वभावादल्पचेष्टा भवतीति परावर्तमानयोगग्रहणम् । ततश्च परावर्तमानयोगोऽष्टविधं बध्नन् पर्याप्तोऽसंज्ञी स्वप्रायोग्य
१ सं. १-२ म० त० छा० घातं० । 17