SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ १२८ देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गाथाः बन्धग्रहणम् । तथा 'सुपतिः' शोभनसाधुः प्रस्तावादप्रमत्तपतिरपूर्वकरणश्च गृह्यते, द्वयोरपि प्रमादरहितत्वेन सुयतित्वात् ततश्चैतौ द्वावषि देवगतिः देवानुपूर्वी पञ्चेन्द्रियजातिः वैक्रियशरीरं वक्रियाङ्गोपाङ्ग समचतुरस्र संस्थानं पराघातनाम उच्छ्वासनाम प्रशस्तविहायोगतिः त्रसनाम बादरनाम पर्याप्त नाम प्रत्येकनाम स्थिरनाम शुभनाम सुभगनाम सुस्वरनाम आदेयनाम यशःकीर्तिनाम वर्णचतुष्क तेजस-कामेणे अगुरुलघुनाम उपघातनाम निर्माणनाम आहारकशरीरम् आहारकाङ्गोपाङ्गमित्येतद् देवगतिप्रायोग्यं त्रिंशन्नामोत्तरप्रकृतिकदम्बकं वनन्तो उत्कृष्टयोगे वर्तमानी आहारकद्विकम्-आहारकशरीरा-ऽऽहारकाङ्गोपाङ्गलक्षणमुत्कृटप्रदेशं बनीतः । तीर्थकरनामसहिते एकत्रिंशद्वन्धेऽप्येतद् बध्यते. किन्तु तत्र भागबाहुल्याद् न गृह्यते । तथा 'शेषाः' भणितचतुःपञ्चाशत्प्रकृतिभ्य उद्धरिताः स्त्यानचित्रिक-मिथ्यात्वाऽनन्तानुवन्धिचतुष्टयस्त्रीवेद-नपुसकवेद नारकायुष्क-तिर्यगायुक-नरकगति-नरकानुपूर्वी-तिर्यग्गति-तिर्यगानुपूर्वी मजुप्यगति मनुष्यानुपूर्वी-एकेन्द्रियजाति-द्वीन्द्रियजाति-त्रीन्द्रियजाति-चतुरिन्द्रियजाति-पञ्चेन्द्रियजाति-औदारिकशरीर-औदारिकाङ्गोपाङ्ग-तेजस-कार्मण--प्रथमवर्जसंहनन- प्रथमवर्जसंस्थान-वर्णचतु का-गुरुलघु-उपघात-पराधात उच्छ्वासा-ऽऽतप-उद्योताऽप्रशस्तविहायोगति-त्रस-स्थावर-बादरसूक्ष्म-पर्याप्ता-ऽपर्याप्त प्रत्येक-साधारण-स्थिरा ऽस्थिर शुभा-ऽशुभ-दुर्भग-दुःस्वरा-ऽनादेया ऽयशःकीर्ति-निर्माण-नीचैर्गात्राणि चेत्येताः पट्पष्टिप्रकृतयः 'उत्कृष्टप्रदेशकाः' उत्कृष्टप्रदेशबन्धाः "मिच्छो' ति मिथ्यादृष्टिरेव करोति । तथाहि-मनुष्यद्विक-पञ्चेन्द्रियजाति-औदारिकद्विकतेजस-कार्मण-वर्णचतुष्का-गुरुलघु-उपघात-पराघात-उच्छ्वास-त्रस-बादर-पर्याप्त प्रत्येक-स्थिराऽस्थिर-शुभा-शुभा -ऽयशःकीर्ति-निर्माणलक्षणाः पञ्चविंशतिप्रकृतीमुक्त्वा शेषा एकचत्वारिंशत सम्यग्दृष्टेर्वन्ध एव नागच्छन्ति । सास्वादनस्तु काश्चिद् बध्नाति परं तस्योत्कृष्टयोगो न लभ्यतेऽत एता एकचत्वारिंशत् प्रकृतीमिथ्यादृष्टिरेवोत्कृष्टयोगे वर्तमानी मूलप्रकृतीनामुत्तरप्रकृतीनां च यथासम्भवमल्पतरवन्धक उत्कृष्टप्रदेशाः करोति । या अपि चोक्तस्वरूपाः पञ्चविंशतिप्रकृतयः सम्यग्दृष्टेर्वन्धे समागच्छन्ति तास्वपि मध्ये औदारिक-तेजस-कार्मण-वर्णादिचतुष्का- गुरुलघुउपघात वादर प्रत्येका-ऽस्थिरा-ऽशुभा-ऽयश कीर्ति-निर्माणलक्षणानां पञ्चदशप्रकृतीनामपर्याप्तकेन्द्रिययोग्यो नाम्नस्त्रयोविंशतिप्रकृतिनिष्पन्नः तेजस-कार्मण-वर्णादिचतुष्का-ऽगुरुलघु उपघातनिर्माण-तिर्यग्गति-तिर्यगानुपूर्वी-एकेन्द्रिय जाति-औदारिकशरीर-हुण्डसंस्थान-स्थावर-बादर-सूक्ष्मैकतराऽपर्याप्त प्रत्येक साधारणान्यतरा-ऽस्थिरा--ऽशुभ--दुर्भगाऽनादेया-ऽयशःकीर्तिलक्षणो बन्धः तेनैव सह बध्यमानानामुत्कृष्टप्रदेशबन्धो लभ्यते, नोत्तरैः पञ्चविंशत्यादिबन्धैः, भागबाहुल्यात् । शेषाणां तु मनुष्यद्विक-पञ्वेन्द्रियजाति-औदारिकाङ्गोपाङ्ग-पराघात-उच्छ्वास-त्रस-पर्याप्त स्थिर १ सं. १-२ त० म० छा० •ऽशुभ-य' ॥
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy