SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [ गाथा कालोऽसङ्ख्ये योत्सर्पिण्यव सर्पिणीमाना बादरं क्षेत्रपल्योपमम्, तदशकोटीकोटयो बादरं क्षेत्रसागरोपमम् । तथैवैकैकवालाग्रासङ्ख्यं यतमखण्डैः स्पृष्टानामस्पृष्टानां च नभःप्रदेशानां प्रतिसमयमेकैकापहारेण निर्लेपनाकालो बादरासङ्ख्यं यगुणकालमानः सूक्ष्मं क्षेत्रपल्योपमम्, तदशकोटीकोटयः सूक्ष्मं क्षेत्रसागरोपमम् । उक्तं चानुयोगद्वारेषु ११८ 'से किं तं सुदुमे खेत्तपलिओ मे ! से जहानामए पल्ले सिया एगजोयणं आयामविवखंभेणं जोयणं उड्डू उच्चत्तेणं जाव भरिए वालग्गकोडीणं, तत्थ णं एक्कमिक्के वालग्गे असंखेज्जाई खंडाई कीरह, ते वाग्गा दिट्ठी ओगाहणाओ असंखेज्जभागमित्ता सुहुमस्स पणगजीवस्स सरीरोमाहणाओ असंखेज्जगुणा, ते णं वालग्गा नो अग्गी डहिज्जा नो वाऊ हरिज्जा जाव नो पूइतहव्वमागच्छज्जा, जेणं तस्स आगासपएसा तेहिं वालग्गेहिं फुन्ना वा अणाकुन्ना वा तओ णं समएसमए इक्कमिक्कमागासपएसं अवहाय जावइएणं कालेणं से पल्ले खीणे जाव निल्लेवे भवइ से तं सुहुमे खेत्तपलिओवमे । तत्थ चोयए पन्नवर्ग एवं वयासी - अस्थि णं तस्स पल्लस्स आगासपएस जे णं तेहिं वालग्गेहिं अणाफुन्ना १ हंता अस्थि । जहा को दिट्ठ तो ? से जहानाम कुसिया कुडाणं भरिए तत्थ माउलिंगा पक्खित्ता ते वि माया, तत्थ बिल्ला पक्खित्ता ते वि माया, तत्थ आमलया पक्खित्ता ते वि माया, तत्थ णं वयरा पक्खित्ता ते विमाया, तत्थ णं चिगा पक्खित्ता ते वि माया, तत्थ णं मुग्गा पक्खित्ता ते वि माया, तत्थ णं सरिसवा पक्खित्ता ते वि माया, तत्थ णं गंगावालुया पक्खित्ता सा वि माया, एवमेव अस्थि तस्स पल्लस आगासपरसा जेणं तेहिं वालग्गेहिं अणाफुन्ना || ( पत्र १९२ - १ ) इति । एताभ्यां च सूक्ष्मक्षेत्रपल्योपम-सागरोपमाभ्यां प्रायो दृष्टिवादे द्रव्यप्रमाणप्ररूपणायां प्रयोजनं सकृदेव नान्यत्र । यदागमः - १ अथ किं तत् सूक्ष्मं क्षेत्रपल्योपमम् ? असौ यथानामकः पल्यः स्याद् एकयोजन आयामविष्कम्भाभ्याम् योजज ऊर्ध्वमुच्चैस्त्वेन यावद् भृतः वालामकोटिभिः तत्र खलु एकैकं वालाग्रमसंख्येयानि खण्डानि क्रियते तानि च वालाग्राणि दृष्टयवगाहनातोऽसंख्येयमागमात्राणि सूक्ष्मस्य पनकजीवस्य शरीरावगाहनातोऽसंख्येयगुणानि तानि च वालाप्राणि नाग्निर्दद्देद् न वायुरेद् यावद् न पूतित्वेन शीघ्रमागच्छेयुः, ये च तस्य आकाशप्रदेशाः तैः स्पृष्टष्टा ततः खलु समये समये एकैकमाकाशप्रदेशमपहाय यावता कालेन स पल्यः क्षीणः यावद् निर्लेपः भवति तदिदं सूक्ष्मं क्षेत्रपल्योपमम् । तत्र चोदकः प्रज्ञापकमेवमवादीत् - सन्ति तस्य पल्यस्याकाशप्रदेशा ये तैर्वाला प्रेर ? हन्त सन्ति । यथा को दृष्ठान्तः ? असौ यथानामकः कोष्ठः स्यात् कूष्माण्डैर्भूतः, तत्र मातुलि क्षिप्तानि तान्यपि अवगाढानि, तत्र बिल्वानि क्षिप्तानि तान्यप्यवगाढानि, तत्रामलकानि प्रक्षिप्त तान्यप्यवगाढानि, तत्र बदराणि क्षिप्तानि तान्यपि अवगाढानि, तत्र चणकाः प्रक्षिप्तास्तेऽपि अवगाढाः, तत्र मुद्गाः प्रक्षिप्तास्तेऽपि अवगाढाः, तत्र सर्षपाः प्रक्षिप्तास्तेऽपि अवगाढाः, तत्र गङ्गावालुकाः प्रक्षिप्तस्त भप्यवगाढाः, एवमेव सन्त्येव तस्य पल्यस्याकाशप्रदेशा ये तैर्वाला यैरनास्पृष्टा इति । नास्पृष्टाः
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy