SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ ८५] शतकनामा पञ्चमः कर्मग्रन्थः । [ ११७ 'उद्धारसागराणं, अड्राइज्जाण जत्तिया समया । दुगुणादुगुणपवित्थर, दीवोदहि हुति एवइया || ( जिनभ० सङग्र० गा० ८०) इत्युक्तं बादर-सूक्ष्मभेदतो द्विविधमप्युद्धारपल्योपमम् १ । सम्प्रति द्विविधमेवाद्धापल्योपमं प्ररूप्यते-तत्र पूर्वोक्तपल्या वर्षशतेऽतिक्रान्ते एकैकवालाग्रापहारेण निलेपनाकालः सङ्ख्य यवर्षकोटीमानो बादरमद्धापल्योपमम् , तदशकोटीकोटयो बादरमद्धासागरोपमम् । तथैव पूर्वोक्तपल्याद्वर्षशते वर्षशतेऽतिक्रान्ते एकैकवालाग्रासङ्खये यतमखण्डापहारेण निलेपनाकालोऽसङ्ख्यातवर्षकोटीमानः सूक्ष्ममद्धापल्योपमम् , तदशकोटीकोटयः सूक्ष्ममद्धासागरोपमम् , तद्दशसागरोपमकोटीकोटीप्रमाणाऽवसर्पिणी, तावत्प्रमाणेवोत्सर्पिण्यपि, अवसर्पिणी-उत्सर्पिण्योऽनन्ताः पुद्गलपरावर्तः, अनन्ताः पुद्गलपरावर्ताः अतीताद्धा, अनन्ताः पुद्गलपरावती अनागताद्धा चेति । उक्तं च श्रीभगवतीटीकायां-- "अहवा पडुच्च कालं, न सव्यभव्याण होइ बुच्छित्ती । जंतीयऽणागयाओ, अद्धाओ दो वि तुल्लाओ ॥ ( शत० १२ उ० २) अयमत्राभिप्रायः--यथाऽनागताद्धाया अन्तो नास्ति, एवमतीताद्धाया आदिरिति व्यक्तं समत्वमिति । अन्ये त्याहु:-- उस्सप्पिणी अणंता, पुग्गलपरियट्टओ मुणेयव्यो । तेऽणन्ता तीयऽद्धा, अणागयद्धा अणंतगुणा ॥ (जीवस० गा० १२९ ) अत्रेयं भावना-अतीताद्धातोऽनागताद्धाया अनन्तगुणत्वम् , समयावलिकादिभिरनवरतं क्षीयमाणाया अप्यनागताद्धाया अक्षयात् । ___ आभ्यां च सूक्ष्माद्धापल्योपम-सागरोपमाभ्यां सुर-नरक-नर-तिरश्चां कर्मस्थितिः कायस्थितिः भवस्थितिश्च मीयते । उक्तं चानुयोगदारेषु-- __ "एएहिं सुहमअद्भापलिओवमसागरोवमेहिं किं पओयणं ? गोयमा ! एएहि नेरइयतिरिक्खजोणियमणुस्सदेवाण य आउयाई मविज्जति ( पत्र १८३-२ ) इति । ___ अभिहितं बादर-सूक्ष्मभेदतो द्विविधमप्यद्धापल्योपमम् २ । साम्प्रतं द्विविधमेव क्षेत्रपल्योपमं निरूप्यते-तत्र पूर्वोक्तपल्याद् वालाग्रस्पृष्टनभःप्रदेशानां प्रतिसमयं एकैकापहारेण निलेपना १ उद्धारसागराणां अर्धतृतीयानां यावन्तः समयाः। द्विगुणद्विगुणप्रविस्तरा द्वीपोदधयो भवन्त्येतावन्तः। २ सं० १-२ त० म० छा० पम, दशसाग । ३ अथवा प्रतीत्य कालं न सर्वभव्यानां भवति व्युच्छित्तिः । यदतीतानागते अद्धे द्वे अपि तुल्ये ॥ ४ उत्सर्पिण्योऽनन्ताः पुद्गलपरावर्तो ज्ञातव्यः । तेऽनन्ता अतीताद्धाऽनागताद्धा चानन्तगुणा ।। ५ एताभ्यां सूक्ष्माद्धापल्योपम-सागरोपमाभ्यां किं प्रयोजनम् ? गौतम ! एताभ्यां नैरयिकतिर्यग्योनिकमनुष्य-देवान चायूपि मीयन्ते ।
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy