SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २०२ देवेन्द्रसूरिविरचितस्त्रोपज्ञटीकोपेतः भाइयं पयरं 'छपन्नदोस यंगुल सूपए से हि जोसिएहिं हीरs, (पञ्चसं० गा० ४६ ) इति । तथा- [ गाथा अत एवोक्तम् - " वाणमंतरेहिंतो संखेज्जगुणा जोइसिय" ति । तथा वैमानिकदेवा घनीकृतस्य लोकस्य या उर्ध्वाधआयता एकप्रादेशिक्यः श्रेणयोऽङ्गुलमात्रक्षेत्र प्रदेशराशिसम्बन्धितृतीयवर्गमूलघनप्रमाणास्तासां यावान् प्रदेशराशिस्तावत्प्रमाणाः, अतः सकलभवन पत्यादिसमुदायापेक्षया चिन्त्यमाना देवा नारकेभ्योऽसङ्ख्यातगुणा एव । तेभ्योऽपि च देवेभ्यस्तिर्यश्चोऽनन्तगुणाः, तत्रानन्तसङ्ख्योपेतस्य वनस्पतिकायस्य सद्भावात् । उक्तं च- एसिंणं भंते! नेरइयाणं तिरिक्खजोणियाणं मणुस्साणं देवाणं सिद्धाण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वथोवा मणुस्सा, नेरइया असंखेज्जगुणा, देवा असंखेज्जगुणा, सिद्धा अनंतगुणा, तिरिक्खजोणिया अनंतगुणा ॥ ( प्रज्ञाप० पत्र ११६-२ ) थोवा नरा नरेहि य, असंखगुणिया हवंति नेरइया । तत्तो सुरा सुरेहि य, सिद्धाऽणंता तओ तिरिया ॥ ( जीवस० गा० २७१ ) इति ॥ ३७ ॥ उक्तं गतिष्वल्पबहुत्वम् | साम्प्रतमिन्द्रियद्वारे कायद्वारे तदभिधित्सुराह-- पण चउति दु एगिंदी, धोवा तिन्नि अहिया अनंतगुणा । तस थोव असंखग्गी, भूजलनिल अहिय वणऽणंता ॥ ३८ ॥ पञ्चेन्द्रियाश्चतुरिन्द्रियादिभ्यः स्तोकाः, तेभ्यश्चतुरिन्द्रिया ' अधिका: ' विशेषाधिकाः, तेभ्यस्त्रीन्द्रिया विशेषाधिकाः, तेभ्यो द्वीन्द्रिया विशेषाधिकाः । तत्र च यद्यपि घनीकृतस्य लोकस्य ऊर्ध्वाधआयता एकप्रादेशिक्यः श्रेणयोऽसङ्ख्यातयोजनकोटीकोटीप्रमाणाकाशप्रदेशसूचिगतप्रदेशराशिप्रमाणास्तासां यावान् प्रदेशराशिस्तावत्प्रमाणा द्वीन्द्रियत्रीन्द्रिय चतुरिन्द्रियतिर्यग्योनिपञ्चेन्द्रिया अविशेषेण सूत्रे निर्दिष्टाः, तथा चोक्तं तत्र यथोक्तरूपद्वीन्द्रियपरिमाणाभिधानानन्तरम् - १ षट्पञ्चाशदधिकद्विशताङ्गुलप्रदेशैर्भक्तः प्रतरः । ज्योतिष्कैः ह्रियते ॥ २ व्यन्तरेभ्यः सङ्ख्येयगुणा ज्योतिष्काः || ३ एतेषां भदन्त ! नैरयिकाणां तिर्यग्योनिकानां मनुष्याणां देवानां सिद्धानां च कतरे कतरेभ्योऽल्पा वा बहुका वा तुल्या वा विशेषाधिका वा ? गौतम ! सर्वस्तोका मनुष्याः, नैरयिका असङ्ख्येयगुणाः, देवा असङ्ख्येयगुणाः सिद्धा अनन्तगुणाः, तिर्यग्योनिका अनन्तगुणाः ॥ ४ स्तोका नरा नरेभ्यश्चासङ्ख्य गुणिता भवन्ति नैरयिकाः । ततः सुराः सुरेभ्यश्च सिद्धा अनन्तास्ततस्तिर्यञ्चः ॥
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy