SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ ३७ ] षडशीतिनामा चतुर्थः कर्म प्रन्थः । २०१ वर्गमूलेन प्रत्युत्पन्नं-गुणितम्, तथा च यावन्त्योऽत्र श्रेणयो लब्धा एतावत्प्रमाणश्रेणीनां विष्कसूचिर्भवति एतावत्यः श्रेणयोऽत्र गृह्यन्त इत्यर्थः । इदमुक्तं भवति - अङ्गुलप्रमाणे प्रतरक्षेत्रे किलाऽसत्कल्पनया षट्पञ्चाशदधिके द्वे शते श्रेणीनां भवतः, तद्यथा - २५६, अत्र प्रथमवर्गमूलं १६, द्वितीयं ४, चतुर्भिश्च षोडश गुणिता जाता चतुःषष्टिः ६४, एषा चतुःषष्टिरपि सद्भावतोऽसङ्ख्ये याः श्र ेणयो मन्तव्याः, एतावत्सङ्ख्य णीनां विस्तरसूचिरिह ग्राह्या । अथवा 'णं' इति वाक्यालङ्कारे, अयं द्वितीयः प्रकारः प्रस्तुतार्थविषये । तथाहि--"अङ्गुलबिइयवग्गमूलवण" इत्यादि । अङ्गुलप्रमाणप्रतरक्षेत्रवर्तिश्रेणिराशेर्यद् द्वितीयवर्गमूलमनन्तरं चतुष्टयरूपं दर्शितं तस्य यो घनचतुः षष्टिलक्षणस्तत्प्रमाणाः श्रेणयोऽत्र गृह्यन्त इति प्ररूपणैव भिद्यतेऽर्थतस्तु स एव । इदमत्र तात्पर्यम् - सप्तरज्जुप्रमाणस्य घनीकृतस्य लोकस्य या ऊर्ध्वाधआयता एकप्रादेशिक्यः श्रेणयोऽङ्गुलमात्रक्षेत्र प्रदेशराशिगत द्वितीय वर्गमूलघनप्रदेशराशिप्रमाणास्तासां यावान् प्रदेशराशिस्तावत्प्रमाणा नारकाः, अतस्ते नरेभ्योऽसङ्ख्यातगुणा एव || एतेभ्योऽपि देवा असङ्ख्यातगुणाः । कथम् १ इति चेद् उच्यते---देवा हि भवनपत्यादिभेदेन चतुर्धा, भवनपतयोऽसुरादिभेदेन दशविधाः । तत्राऽसुरकुमारा अपि तावद् घनीकृतस्य लोकस्य या ऊर्ध्वाधआयता एकप्रादेशिक्यः श्रेणयोऽङ्गुलमात्रक्षेत्रगतप्रदेशराशि सम्बन्धिप्रथमवर्गमूलासङ्ख्ये यभागगतप्रदेशराशिप्रमाणास्तासां सम्बन्धी यावान् प्रदेशराशिस्तावत्सङ्ख्याकाः, एवं नागकुमारादयोऽपि द्रष्टव्याः । तथा सङ्घये ययोजनप्रमाणाकाशप्रदेश सूचिरूपैः खण्डैर्यावद्भिर्घनीकृतस्य लोकस्य मण्डकाकारः प्रतरोऽपहियते तावत्प्रमाणा व्यन्तराः । उक्तं च 'संखेज्जजोयणाणं, सूइपएसेहि भाइओ पयरो 1 वंतरसुरेहिं हीरs, एवं एक्केकभेएणं || (पञ्चसं० गा० ४८ ) अस्या अक्षरगमनिका - सङ्ख्ये ययोजनप्रमाणा 'सूचि : ' एकप्रादेशिकी पङ्क्तिस्तत्प्रदेशैःसङ्ख्ये ययोजनप्रमाणैकप्रादेशिक पङ्क्तिप्रदेशैरिति यावत् भक्तं प्रतरं व्यन्तरसुरैरपहियते तावद्भागलब्धराशिप्रमाणा व्यन्तरसुरा इत्यर्थः । इयमत्र भावना-सङ्ख्ये ययोजनप्रमाणसूचिप्रदेशाः किलासत्कल्पनया दश, प्रतरप्रदेशाश्च लक्षम्, ततो दशभिर्भागे हृते लब्धाः सहस्रा दश एतावन्त इत्यर्थः । 'एवम् ' उक्तेन प्रकारेण प्रतिनिकायं व्यन्तराणां भावना कार्या । न चैवं सर्व समुदायपरिमाणनियमव्याघातप्रसङ्गः, सूचिप्रमाणहेतु योजनसङ्ख्ये यत्वस्य वैचित्र्यादिति ॥ " तथा षट्पञ्चाशदधिकशतद्वयाङ्गुलप्रमाणैराकाशप्रदेशसूचिरूपैः खण्डैर्यावद्भिर्यथोक्तस्वरूपं प्रतरमपहियते तावत्प्रमाणा ज्योतिष्का देवाः । उक्तं च १ संख्येययोजनानां सूचिप्रदेशैः मक्तः प्रतरः । व्यंतरसुरैः ह्रियते एवमेकैकभेदेन ॥
SR No.032086
Book TitleNavya Panch Karmgrantha Tatha Saptatika
Original Sutra AuthorN/A
AuthorDevendrasuri, Purvacharya, Malaygirisuri
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1977
Total Pages602
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy