SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ अथ पट्टावली। श्रीवर्धमानजिनराजपदक्रमेण __ श्रीआर्यरक्षितमुनीश्वरसूरिराजाः । विद्यापगाजलधयो विधिपक्षगच्छ संस्थापका यतिवरा गुरवो बभूवुः ॥६॥ तच्चारुपट्टकमला[ज]लराजहंसा श्चारित्रमंजुकमला श्रवणावतंसाः । गच्छोधिपा बुधवरा जयसिंहसूरि नामानि उ-द्यदमलोरुगुणावदाताः ॥७॥ श्रीधर्मघोषगुरवो वरकीर्तिभाजः सूरीश्वरास्तदनु पूज्यमहेंद्रसिंहाः । आसंस्ततः सकलसूरिशिरोवतंसाः सिंहप्रभाभिधसुसाधुगुणप्रसिद्धाः ॥८॥ तेभ्यः क्रमेण गुरवो जिनसिंहसूरि गोत्रा बभूवुरथ पुज्यतमा गणेशाः । देवेंद्रसिंहगुरवोऽखिललोकमान्या ___ धर्मप्रभा मुनिवरा विधिपक्षनाथाः ॥९॥ पुज्याश्च सिंहतिलकास्तद्नु प्रभूत भाग्या महेंद्रविभवो गुरवो बभूवुः । चक्रेश्वरीभगवतीविहितप्रसादाः __ श्रीमेरुतुंगगुरवो नरदेववंद्याः ॥१०॥ तेभ्योऽभवन् गणधरा जयकीर्तिसूरि- . ___मुख्यास्ततश्च जयकेसरिसृरिराजः । सिद्धांतसागरगणाधिभुवस्ततोऽनु श्रोभावसागरगुरूरुगुणा अभूवन् ॥११॥ तद्वंशपुष्करविभासनभानुरूपाः सूरीश्वराः सुगुण[शे]वधयो बभूवुः ॥ षट्पदो। तत्पट्टोदयशैलशृंगकिरणाः शास्त्रांबुधेः पारगा भव्यस्वांतचकोरलासनलसत्पर्णाभचंद्राननाः । श्रीमंतो विधिपक्षग[च्छ)तिलका वादींद्रपंचानना आसन् श्रीगुरुधर्ममूर्तिगुरवः सूरींद्रवंद्यांहूयः ॥१२॥ तत्पद्वेऽथ जयंति मन्मथभटाहंकारशवोपमाः श्रीकल्याणसमुद्रसूरिगुरवः कल्याणकंदांबुदाः ।
SR No.032059
Book TitleAnchalgacchiya Lekh Sangraha
Original Sutra AuthorN/A
AuthorParshva
PublisherAnantnath Maharaj Jain Derasar
Publication Year1964
Total Pages170
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy