SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ संलमा विविधैर्भावः, क्रियायां तु विशेषतः । विहारः ससुखं तस्माद्, शिष्यैः साधं ममाऽभवत् ॥४५८॥ मालेगामाभिधे द्रङ्गे, जातो गन्तुमना अहम् । मूर्तिमद्धर्मरम्येऽस्मिन् , प्रोत्तुङ्गचैत्यमण्डिते ॥४५९॥ राजते गगनस्पर्शि, जिनराजस्य मन्दिरम् । श्रावका धर्मतत्वज्ञाः, तत्र श्रद्धामुभूषिताः ॥४६०॥ सद्गुरोधर्मभारत्या, रसामृतपिपासवः । धर्मतत्त्रपरिज्ञाने, निपुणाः कुशला जनाः ॥४६१॥ कुशाग्रतीक्ष्णधीमन्तो, शोभन्ते तत्र सज्जनाः । आबालवृद्धपर्यन्ता, जिनपूजाविधायिनः ॥४६२॥ निखिलाः परिदृश्यन्ते, जिनधर्मविधायिनः । वृद्धो मान्यः स सश्रद्धो, जिनभक्तः कविर्महान् ॥४६३॥ बालचन्द्राभिधः श्राद्धः, विद्यते भक्तिभागवरः । जिज्ञासावृत्तितोऽन्ये वै, सन्ति प्रश्नस्य पृच्छकाः ॥४६४॥ युग्मम् ॥ समाधानं समादाय, तुष्यन्ति साध्यदृष्टयः । विशिष्टस्तादृशैः श्राद्धैः, विहितं स्वागतं मम ॥४६५॥ विविधैर्वाद्यबेन्डाय-मङ्गलगीतिपूर्वकम् । सुभगाभिःसुनारीभि-रक्षतकीभिरक्षतम् । ॥४६६॥ युग्मम् ॥
SR No.032034
Book TitleAntariksh Tirth Mahatmya
Original Sutra AuthorN/A
AuthorVijaybhuvantilaksuri, Bhadrankarvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year1965
Total Pages222
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy