SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ :.१०४ : आगतेभ्यः सुसडेभ्य: लपनश्रीसृजेमनम् । श्राविकया तया दत्तं, श्रीसमरतसज्ञया ॥९४०॥ प्रतिमानां च सुश्रेण्या, दर्शनेनातिहर्षिताः । जगुर्जनाश्च सर्वेऽपि, दृश्यन्ते तोर्थनायकाः ॥९४१॥ पुष्पैयूंपैस्तथा दीपै-नैवेद्यादिप्रभेदतः । प्रतिमाः पूजितास्तज्जैः, स्थापयितुं विधिपियः ॥९४२॥ पवित्रस्थानके सर्वाः, प्रतिमा: शोभनाननाः । शोभन्ते देवदेवानां, साक्षात्मोक्षदशास्थिताः ॥९४३॥ पुरे प्रवेशिताः सर्वाः, प्रतिमाः प्राणवल्लभाः । विविधैर्वाधनादेश्व, सत्कारिताः समुज्ज्वलाः ॥९४४॥ निधिमहीवियत्पक्ष, सङ्ख्ये वैक्रमवत्सरे । ज्येष्ठशुक्लस्य सप्तम्यां, पुरे प्रवेशितं ततः ॥९४५॥ दशम्यां शुक्रशुक्लस्य, पार्श्वनाथ जिनप्रभोः । बिम्बं प्रवेशितं चैत्ये, विधि विधिना तदा ॥९४६॥ युग्मम् ॥ गर्भागारे स्थितं विम्ब, सत्तेजस्त्रि भयापहम् । राजते पार्श्वनाथस्य, यानपात्रं भवाम्बुधौ ॥९४७॥ नर्तिता इपिता भक्ताः, नूत्नबिम्बस्य दर्शनाद । यथाऽऽगतास्तथायाताः, स्वस्वधान्नि महोदयाः ॥९४८॥
SR No.032034
Book TitleAntariksh Tirth Mahatmya
Original Sutra AuthorN/A
AuthorVijaybhuvantilaksuri, Bhadrankarvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year1965
Total Pages222
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy