SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ : ९८ : ममोपदेशदानेन, कोधिता सा विशेषतः । निजस्य श्रेयसे नित्यं, वर्ततेऽधिकमोदतः ॥८८३॥ अनया धर्मकारिण्या, मम प्रेरणया खलु । उदारवृत्तिधारिण्या, दत्तं दानमनल्पकम् ॥८८४॥ चैत्यं च कारयिता यो, निर्माष्य श्रीजिनेशितुः । बिम्बानि भव्यदिव्यानि, स्थापयेन्मन्दिरे वरे ॥८८५।। स तु तीर्थंकरस्यद्धि, प्राप्नोति परिणामतः । सम्यक्त्वस्य तु बीजस्य, मोक्षस्य प्राप्तितः खलु ॥८८६॥ युग्मम् ॥ कथितं जिननाथेन, सत्यं शास्त्रेषु दृश्यते । श्रद्धानाः सुभव्याश्च, जिनाज्ञा-प्रतिपालकाः ॥८८७॥ एकदा धर्मगोष्ठयां वै, उपदिष्टं मया च तद् । तीर्थचैत्यस्य सेवायाः, फलं पाथेयमुत्तमम् ॥८॥ संयोगाः क्षणिकाः सर्व, जीवनं जलबुद्बुदम् । धनं विद्युञ्चलं नाशि, धर्म एवावलम्बनम् ॥८८९॥ धर्येषु सप्तक्षेत्रेषु, जिनः पात्रमनुत्तरम् । धन्या व्ययन्ति सद्व्यं, जिने जिनालयेऽवहम ॥८९०॥ समाकोपदिष्टं तत् , जिनभक्तेरुदीरकं । जज्ञिरे श्रावकाः सर्वे, जिनभक्तौ कृतादराः ॥८९१॥
SR No.032034
Book TitleAntariksh Tirth Mahatmya
Original Sutra AuthorN/A
AuthorVijaybhuvantilaksuri, Bhadrankarvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year1965
Total Pages222
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy