SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ सुमुहूर्ते सुवेलायां, प्राक् शिलास्थापनं कृतम् । मङ्गलविधिना तत्र, सोत्साहैविधिकोविदः ॥८७३॥ तद्दिने जिनचैत्येऽस्मिन् , विघ्नध्वंसाय धार्मिकाः । पाठयन्ति स्म वाद्यैश्च, पूजां पार्श्वजिनेशितुः ॥८७४॥ ऋषिमहीवियत्पक्ष-सङ्ख्ये वैक्रमवत्सरे । नभःशुक्लदशम्यां च, चैत्यारम्भोऽभवत्तदा ॥८७५।। प्रासादारम्भतः सर्वे, मुदिताः कार्यकारिणः । मानितं तैहदि ह्येवं, तीर्थोद्धारः प्रजायते ॥८७६॥ भुवनतिलकस्यापि. ममाचार्यस्य बोधतः । चैत्यं भवति नव्यं यत्, तत् तीर्थे तीर्थद्धिदम् ॥७७७॥ बालापुराभिधे द्रङ्गे, विदर्भदेशभूषणे । व्याप्ते जैनसमाजेन, प्रोत्तुंगचैत्यमण्डिते ॥८७८॥ वर्तन्ते श्रावका धाः , धर्म-श्रद्धासमानुषः । देवे धर्म गुरौ भक्ताः, पुरेऽस्मिन्त्रतशालिनः ॥८७९॥ स्वर्गस्थलालचन्द्रस्य, वदान्यस्य सुधर्मणः । भार्या समरताभिख्या, सुशीला धर्मशालिनी ॥८८०॥ वृद्धा दानप्रिया श्रेष्ठा, दृढसङ्कल्पधारिणो । श्राविकाचारसंळना, याचकवृन्दवल्लभा ॥८८१॥ सम्पत्तौ च विपत्तौ च, वदान्या हसितानना । धर्मरक्ता गुरौ भक्ता, विश्रुता धर्मकार्यतः ॥८८२।।
SR No.032034
Book TitleAntariksh Tirth Mahatmya
Original Sutra AuthorN/A
AuthorVijaybhuvantilaksuri, Bhadrankarvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year1965
Total Pages222
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy