SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ : ७२ : अनर्गलं धनं दातु, चैत्यकार्याय हर्षुला । मां प्रपृच्छति सा श्राद्धी, कदा देयं धनं मया ? ।। ६५३ ॥ तेलाराख्ये पुरे भावी, नृत्नचेत्यस्य निर्णयः । मया चोक्तं तदा देयं धनं चैत्यकृते त्वया जैनधर्मानुरक्ताश्च, श्रावकाः साधुसेवकाः । आकोलापुरवास्तव्या, गुरुभक्ता विवेकिनः मां च विज्ञपयांचकुर्भूरिभावविकस्वराः । पुरं नः पादपद्मेन, कर्तव्यं पावनं द्रुतम् ॥६५४ ॥ युग्मम् ॥६५५|| ॥६५६॥ युग्मम् ॥ ॥ ३५७॥ मयका धर्मवृद्धयर्थ, जिनानां दर्शनाय च । स्वीकृतं हर्षतोऽधिकं तत्पुरे गमनाय च तीर्थं तीर्थाधिपं भक्त्या, नत्वा स्तुत्वा च भूरिशः । हृदि निघाय तीर्थेशं, अन्तरिक्षं जिनेश्वरम् ||६५८|| पुनस्तु दर्शनं देयं इत्यभ्यर्थ्य जिनेश्वरम् | इति भावाभिरापोऽहं व्यहार्ष मुनिभिः सह आकोलाभिघसद्द्रङ्गे, जैनैश्च परिपूरिते । मदीयागमनं श्रुत्वा सङ्घस्तु मुमुदेतराम अहं विहृत्य पादाभ्यां शिष्यगणैरलङ्कृतः । आगतः सत्कृतो जैनैः, आकोले चैत्यभूषिते ॥ ६६१॥ ॥६५९॥ ॥६६०॥
SR No.032034
Book TitleAntariksh Tirth Mahatmya
Original Sutra AuthorN/A
AuthorVijaybhuvantilaksuri, Bhadrankarvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year1965
Total Pages222
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy