SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ । ॥ सरस्वती-भक्तामरम् ॥ 'श्रीहर्ष'-'माघ'-'वर' 'भारवि'-'कालिदास' _ 'वाल्मीकि'-'पाणिनि'-'ममट्ट' महाकवीनाम् | साम्यं त्वदीयचरणाब्जसमाश्रितोऽयं मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ||८|| विद्यावशा-रसिकमानस-लालसानां __ चेतांसि यान्ति सुदृशां धृतिमिष्टमूर्ते!। त्वय्यर्यमत्विषि तथैव नवोदयिन्यां __ पद्माकरेषु जलजानि विकाशभाञ्जि ॥९॥ त्वं किं करोषि न शिवे ! न समानमानान् त्वत्संस्तवं पिपठिषो विदुषो गुरूहः । किं सेवयन्नुपकृतेः सुकृतैकहेतुं 'भूत्याश्रितं य इह नात्मसमं करोति? ||१०|| यत् त्वत्कथामृतरसं सरसं निपीय मेधाविनो नवसुधामपि नाद्रियन्ते। क्षीरर्णवार्ण उचितं मनसाऽप्यवाप्य TET क्षारं जलं जलनिधेरशितुं क इच्छेत् ? ||११|| जैना वदन्ति वरदे ! सति ! साधुरूपां त्वामामनन्ति नितरामितरे 'भवानीम् ।। सारस्वतं मतविभिन्नमनेकमेकं यत् ते समानमपरं न हि रुपमस्ति ||१२|| मन्ये प्रभूतकिरणौ श्रुतदेवि ! दिव्यौ ___त्वत्कुण्डलौ किल विडम्बयतस्तमायाम् । मूर्तं दृशामविषयं भविभोश्व पूष्णो यद् वासरे भवति पाण्डुपलाशकल्पम् ||१३|| ये व्योमवातजलवह्निमृदां चयेन ___ कायं प्रहर्षविमुखांस्त्वद्दते श्रयन्ति । जातानवाम्ब ! जडताद्यगुणानणून् मां कस्तान् निवारयति सञ्चरतो यथेष्टम् ? ||१४|| १ ‘भूत्याऽऽश्रितं' इत्यपि सम्भवति । २ श्रुति । * * ༡ གtsཆེ༦ གའི མས་ནུབ་
SR No.032030
Book TitleSachitra Siddh Saraswati Sindhu
Original Sutra AuthorN/A
AuthorKulchandravijay
PublisherSankheshwar Parshwanath Jain Mandir
Publication Year1994
Total Pages218
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy