________________
यन्नित्यं तव कामराजमपरं मन्त्राक्षरं निष्फलं, तत् सारस्वतमित्यवैति विरल: कश्विद् बुधश्वेद् भुवि। आख्यानं प्रतिपर्वसत्यतपसो यत्कीर्तयन्तो द्विजाः, प्रारम्भे प्रणवास्पदं प्रणयिनां नीत्वोच्चरन्ति स्फुटम् ||४|| यत्सद्यो वचसां प्रवृत्ति करणे दृष्टप्रभावं बुधै, स्तार्तीयीतदहं नमामि मनसा तद्वीजमिन्दुप्रभम् । अस्त्वौर्वोऽपि सरस्वतीमनुगतो जाड्याम्बुविच्छित्तये, गौ:शब्दो गिरि वर्तते स नियतं योगं विना सिद्धिदः ||५|| एकैकं तव देवि ! बीजमनघं सव्यज्जना व्यञ्जनं, कूटस्थं यदि वा पृथक्क्रमगतं यद्वा स्थितं व्युत्क्रमात् । 3 यं यं काममपेक्ष्य येन विधिना केनाऽपि वा चिन्तितं, जप्तं वा सफलीकरोति तरसा तं तं समस्तं नृणाम् ||६|| वामे-पुस्तकधारिणीमभयदां साक्षरजं दक्षिणे, भक्तेभ्यो वरदान पेशलकरां कर्पूरकुन्दोज्वलाम् । उज्जृम्भाम्बुज पत्र कान्तनयनस्निग्ध प्रभालोकिनी, ये त्वामम्ब! न शीलयन्ति मनसा तेषां कवित्वं कुतः ||७|| ये त्वां पाण्डुरपुण्डरीकपटलस्पष्टाभिरामप्रभा, सिञ्चन्तीममृतद्रवैरिव शिरो ध्यायन्ति मूर्ध्नि स्थिताम् | अश्रान्तं विकटस्फुटाक्षरपदैः निर्याति वक्त्राम्बुजात्, तेषां भारति ! भारती सुरसरित् कल्लोललोलोर्मयम् ||८|| येसिन्दुर परागपुअपिहितां त्वत्तेजसा द्यामिमा, मर्वी चापि विलीनयावकरसप्रस्तारमग्नामिव । पश्यन्ति क्षणमप्यनन्यमनसस्तेषामनङ्गज्वर, क्लान्तास्त्रस्त कुरङ्गशावकदृशो वश्या भवन्ति स्त्रियः ||९|| चञ्चत्काञ्चन-कुण्डलाङ्गदधरामाबद्ध-काञ्चीस्त्रजं, ये त्वां चेतसि तद्गते क्षणमयि ध्यायन्ति कृत्वा स्थिराम । तेषां वेश्मसु विभ्रमादहरह: स्फारी भवन्त्यञ्चिरा, माद्यत्कुअर कर्णतालतरलाः स्थैर्य भजन्ते श्रियः ||१०||
१ यन्नित्ये । २ प्रणयितां । ३ तार्तीयीकमहं । ४ धारणी ! ५ पदां । ६ लोलोम्भिः मयः । ७ स्थिरम् । ८ चिरम् । -