SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । उपचारबिम्बप्रतिबिम्बभावश्लेषाणां यथा'रसभरसा वयवः परिरभते केतकी पवनः । कठिनतरकण्टकोत्करकञ्चकितां कामिनीमिव सकामः ॥' अत्र पवनपक्षे परिरम्भोपचारः, केतकीकामिन्योर्बिम्बप्रतिबिम्बभावः, रसकण्टकपदयोः श्लेषः ॥ अनुगामित्वबिम्बप्रतिबिम्बभावोपचाराणां यथा'मरुद्गृहीतामलमालतीकः सीमन्तयत्येष तमालवल्लीम् । प्राणेश्वरो जीवितवल्लभायाः श्लथाकृति श्रेणिमिवालकानाम् ॥' अत्र 'गृहीता-' इत्यादिरनुगामी, तमालालकानां बिम्बप्रतिबिम्बभावः, मरुति सीमन्तकर्तृत्वोपचारः ॥ अनुगामित्वबिम्बप्रतिबिम्बभावसमासभेदानां यथा'तरलयति मानसं मे कुमुदमनोज्ञा स्मितश्रीस्ते । नाथं द्वीपर्वतीनां ज्योत्स्नेव मनोदचापभ्रूः ॥' अत्र 'तरलयति' इत्यनुगामी, मानससमुद्रयोर्बिम्बप्रतिबिम्बमावः, 'कुमुदमनोज्ञा' इति समासभेदः ॥ वस्तुप्रतिवस्तुभावसमासभेदोपचाराणां यथा'कुटिलगता सरसीरुहसुकुमारकरा सुधांशुमुखी । वक्रतरङ्गाकुलिता सरिदिव सानन्दमवगाह्या ॥' अत्र गततरङ्गयोर्बिम्बप्रतिबिम्बभावापन्नयोः कुटिलवक्रत्वाभ्यामेकधर्म उक्त [इति वस्तुप्रतिवस्तुभावः], 'सरसीरुह-' इति समासभेदः, अवगाहनस्य कामिन्यामुपचारः ॥ वस्तुप्रतिवस्तुभावसमासभेदश्लेषाणां यथा'समीरणोदञ्चितकिंचिदञ्चलं स्तनं दधाना सुमृणालबाहुका । गुलुच्छमभ्युच्छ्रसितैकपल्लवा सरोजिनीवासि विसारिसौरभा ॥' अत्र-बिम्बप्रतिबिम्बभावापन्नयोः स्तनगुलुच्छयोरुदञ्चितोच्छसितेत्ये१. पतीनां' ख. २. क-पुस्तके नोपलभ्यते. ३. 'तनौपि सौरभम्' क.
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy