SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ अलंकारकौस्तुभः । ४३ उपचारसमासभेदश्लेषाणां यथा'सरए सरम्मि पहिआ जलाइ कन्दोट्टसुरहिगन्धाइं । धवलच्छाइ सअला पिअन्ति दइआण व मुहाई ॥' अत्र पिबन्तीति मुखपक्षे उपचारः, नीलोत्पलसुरभीति समासभेदः, 'धवलाच्छानि, धवलाणि' इत्यर्थकतया 'धवलच्छाइ' इत्यत्र श्लेषः ॥ अनुगामित्वबिम्बप्रतिबिम्बभावसमासभेदानां यथा मम'स्फुटनयनपङ्कजा सा स्वच्छमुखी मे मनः प्रसादयति । कुमुदाकरं शरदिव नवसमुदितशीतकिरणबिम्बा ॥' अत्र 'प्रसादयति' इत्यनुगामि, मुखचन्द्रयोर्बिम्बप्रतिबिम्बभावः, स्फुटनयन-' इति समासभेदः ॥ अतः परं ममतैद्विषये श्लोकाःअनुगामित्वसमासभेदश्लेषाणां यथा'तारामुक्ताहारा समुदञ्चितचन्द्ररुचिचर्चा । विकसितकैरवहासा ज्योत्स्नीव वधूवरं विधुनोति ॥' अत्र 'ज्वरं विधुनोति' इत्यनुगामि, 'तारा-' इत्यादौ 'विकसित-' इत्यादौ च समासभेदः । 'चन्द्र' इति श्लेषः ॥ उपचारबिम्बप्रतिबिम्बभावसमासभेदानां यथा'विजृम्भमाणोन्नतकोरकस्तनी सरोजिनीं चुम्बति वासरेश्वरः । समुल्लसत्कुङ्कुमपङ्कलोहितो युवा नवीनां वरवर्णिनीमिव ॥' अत्र 'विजृम्भमाण-' इत्यत्र 'समुल्लसत्-' इत्यत्र च समासभेदः, सरोजिनीवरवर्णिन्योर्बिम्बप्रतिबिम्बभावः, 'चुम्बति' इति रविपक्षे उपचारः॥ देवीपरिगृहीतलतापेक्षया राजपरिगृहीतायास्तस्याः प्रथममेव पुष्पितत्वात् ॥ कन्दोई नीलोत्पले देशी। 'शरदि सरसि पथिका जलानि नीलोत्पलसुरभिगन्धानि । धवलाच्छानि(क्षाणि) सतृष्णाः पिबन्ति दयितानामिव मुखानि ॥' [इति च्छाया। धवलानि श्वेतव. र्णानि च तान्यच्छानि प्रसन्नानि चेति धवलाच्छानि । पक्षे-धवलाक्षाणि धवलनेत्राणि । मुखपक्ष इति । मुख्यपानस्य द्रवद्रव्य एव संभवादित्यर्थः ॥ भेदान्तराणां १. 'अत्र' क.
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy