SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ ४१४ काव्यमाला। अत्र वैरिनिष्ठराजविषयकभावाभासः कविनिष्ठराजविषयकभावस्येति ऊर्जखी। [चतुर्थो यथा-] 'अस्मिन्नेव जने विधेयमधुना व्यावर्तितेच्छं मनो दूत्यं वा शशिनः कुले कथमिति क्षिप्तो विमर्षो मया । इत्येवं बहुदोषमाधिगहनं यत्कार्यमङ्गीकृतं तन्मा भून्नमुचिद्विषो मयि मुधैवाभ्यर्थनाविस्तरः ॥' अत्र विमर्षभावशान्तिनलनिष्ठेन्द्रविषयकभावस्येति समाहितम् । [पञ्चमो] भावोदयो यथा मम 'नेत्रारविन्ददलयोर्लसतारुणिमा मध्येललाटतटमुत्कटया भृकुट्या । बिम्बाधरेण किमपि स्फुरतारुणेषु कोपो विभाति भवतोऽभ्युदयन्द्विषत्सु ॥' अत्र क्रोधोदयो राजविषयकभावस्य । षष्ठो यथा ममैव'अप्यादेर्जगतां नवो लवणिमा सीदन्ति गात्राणि किं रज्यन्ते न हि मानसानि विषये प्रत्यनिरुद्धात्मनाम् । धिग्वृत्तिं मनसः स्पृहातरलितां लभ्येत वायं मया प्रेयानित्यचलाधिराजतनयाचिन्ता चिरं पातु वः ॥' अत्र भगवदालोकनेन भगवत्याः सर्वमङ्गलाया विस्मयश्रममतिनिर्वे. दोत्कण्ठानां शबलत्वं कविनिष्ठगौरीविषयकभावाङ्गमिति सर्व शिवम् ॥ १. 'दुहितुश्चिन्ता' ख.
SR No.023514
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorVisheshwar Pt, Shivdutt Pt
PublisherTukaram Javaji
Publication Year1898
Total Pages436
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy